पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ संत्यापाढविरचितं श्रौतसूत्र-: [१प्रथमप्रश्ने- नाभ्यां नाङ्ग न प्रधानं चानुष्ठित स्यात् । किंच, फलसंबन्धिकरणं यानमानं, तच्चेदं न ममेति द्रव्यस्वत्वत्यागरूपः संकल्पः । स च गार्हपत्याद्याधानेषु महारुद्रापादौ द्रव्य- त्यागासंभवात्विग्भिः कृतस्याऽऽधानस्य अपस्य फलं यजमानगामि न स्यात् । किंचाङ्गेषु प्रयाजादिषु त्यागोऽपि होत्रादिभिरेव कर्तव्यः स्यात्फलाय करणत्वाद्धा- स्वर्थस्य त्यागपर्यवसायित्वं धात्वर्थपर्यवसानाय गृह्यतेऽतोऽहं वाच्यं प्रधान लक्षितं त्याग इति भवतां मतपर्यवसानम् । तन्न । उभावंशावुभाम्यां सहानुष्ठेयौ किंवा क्रमेण | नाऽऽद्यः । वषट्कारान्तेन दानं देवतोद्देशेन भवति तदा दानसंस्कृतस्य त्यागः कार्यः । न ह्यदत्तस्य त्यागः स्यात् । अथ दीयमानस्यैव त्यागस्तहि स्वयमनिहोत्र- होमो न स्यात् । स्वाहान्तेन होगे सति पश्चात्यागस्यावकाशो न मध्ये । सोमे च गृहपते यजेत्युक्ते यजमान एवं यजति तदाऽपि नावकाशः । अथानन्तरं त्यागस्तहि वषट्कारेण सह यदा प्रक्षेपस्तदा प्रक्षेपस्य यागे प्रतिपत्तिरूपत्वान्प्रतिपादितस्य पश्चाद्यागायोगान प्रधानयागसिद्धिः । अधाऽऽदावेव त्यागस्ताहि शिष्टाचारविरोधः । यागहोमयार्वषट्कारस्वाहाकाराभ्यां कृतयोः प्रतिपत्तिकर्मताऽऽपद्येत । अस्माभिस्तु त्यागस्य प्रतिपत्तिरूपत्वमङ्गी क्रियते । द्वितीया प्रतिपत्तिस्त्यागरूपा भस्मसात्करण- मिवाऽऽक्षिप्तस्य हविषो याज्ञिका आदरेण तथा कुर्वन्तोऽत्याचारादनुमोयते न क्वचि- साक्षादपदेशोऽस्ति त्यागस्य वा भस्मीभावकरणस्य वा। तदकरणे सर्वप्रायश्चित्त मात्रमेव याज्ञिकैरुपदिश्यते । भवत्पक्षे प्रवसतो यजमानस्य त्याग एवे न सिध्येत् । त्यागमात्रस्य प्रधानत्वे वषट्कारस्वाहाकारान्तमत्रसाध्यं देवतामुद्दिश्य हविर्दीनं त्यज्यमानस्य द्रव्यस्य संस्कार एव वाच्यो न दानं द्रव्यं प्रति प्रधान दानत्यागयोरे द्रव्यं प्रति प्राधान्यायोगात्प्राधान्ये वोभयोर्याजमानत्वापत्तेरवश्यं दानं भूतभाव्यु. पयोगं हि द्रव्यं संस्कारमहतीति न्यायेन भाव्युपयोगस्य द्रव्यस्य संस्कारो भूतोपयो- गस्य प्रतिपत्तिरित्यङ्गीकार्य, तदा तस्य प्रवसतो यजमानस्य द्रव्यत्यागात्पूर्वभावपश्चा- झावाज्ञानानं कर्मसिद्धिः । पूर्व यजमानेनात्यक्तस्य कथं यागे प्रक्षेपेण प्रतिपत्तिः स्याहानं पूर्व यहि तार्ह त्यक्तस्य कयं संस्कारः स्यादिति । मत्पक्षे यजमानसंस्कार- व्यतिरिक्तस्य संस्कारस्य प्रवसतो नास्त्येवानुष्ठानमकर्मकरणानां मन्त्राणं जपमात्र यजमानस्य, कर्मकरणैर्मन्त्रैरवगुणा याजमानं क्रियते, स्वत्वत्यागं पत्नी कुर्यात् । यजमानेन कृतेऽपि न दोषः प्रपिपत्त्या हि संनिपत्योपकारिण्या न निवृत्त यामे स्वरूपेण कश्चिदुपकारो जन्यत इति तस्याः संस्कारकर्मत्वनिर्वाहार्थ यागस्वरूपमपूर्वरूपेण स्थितं प्रतिबध्यते नोत्पद्यते वा प्रतिपत्त्यभावनेति कल्पनीयम् । । १.ग. 1२ ख. 'मिव । क्षि। ३ ख..णे च स । ४ ख. छ. होम । ५ क. ग. व सिं'। क. ग. धान्यद्यायो। स.च, न तत्कर्म ।