पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ १प्र०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । नमु त्रिमियदा वेदापितं कर्म तद्भवेत् । सदेकस्य भवेन्नूनमप्रामाण्येन दूषणम् ॥ १ ॥ नाप्रमाणमपि यो वेदोऽध्येयो विधानतः । चतुर्थस्यापि वेदस्याथर्वणोऽस्ति प्रमाणता ॥२॥ वैतानिके ब्रह्मकर्मव्यभिचारेऽप्यलौकिके । लौकिकेऽपि च सूत्रेणाऽऽवेदयिष्यत्यसौ स्वयम् ॥ ३ ॥ ततो न परिसंख्याऽस्य कर्नु युक्ता प्रमाणतः । न किंचिल्लौकिके मान मन्त्रबामणरूपतः ॥ ४ ॥ तत्र वेदत्वधर्मेणं प्रामाण्यमपि दुर्धटम् । अत्रोच्यते द्वंद्ववृत्तौ पदत्रयविवक्षणम् ॥ ५॥ मुख्यत्वेन चतुर्णामप्येकवेदपदाद्ग्रहः । लौकिकेष्वपि मानत्वसिद्धथै चामुख्ययोर्द्वयोः ॥ ६ ॥ यद्यप्यमुख्यवेदत्वेनैकेनकोऽपि संभवेत् । तथाऽप्यवान्तरोपाधिद्वयेनामुख्यता द्वयोः ॥ ७ ॥ अध्येतुं शक्यते शाखा सैव स्वाधाय उच्यते । तामधीयान एवासी वेदाध्यायन्यथाऽधकृत् ॥ ८ ॥ वेदशब्दश्चतुष्के वा प्रत्येकं वा चतुष्टये । एकत्वेन प्रयुक्तोऽपि नैकव्यक्त्यभिधानकृत् ॥ ९ ॥ वेदानधीत्य वेदौ वा वेदं वेति स्मृतिस्तथा । काठकेऽपि ह्यनन्ता वै वेदा इत्युच्यते यतः ॥ १० ॥ वेदत्वजात्यैकशाखा व्यक्तिरित्येव निर्णयः । तदेकदेशे शाखावं वेदत्वमपि चेष्यते ॥ ११ ॥ यच्च शाखैकदेशेन विहितं कर्म वैदिकम् । प्रोच्यते गौणमेवैतद्वेदवाक्यविवक्षया ॥ १२ ॥ ननु चैवं वैदिकं तु कर्म न स्याकिमप्यथ । स्याद्वा सर्व वेदमूलस्मृत्याचारोपवर्णितम् ॥ १३ ॥ सत्यं तथाऽपि कश्चिद्धि विशेषोऽस्ति विभेदकृत् । स्वशाखान्तर्गतैक्यिः शाखान्तरगतैरपि ॥ १४ ॥ एकप्रकरणापत्नै पितं ब्राह्मणैस्तु यत् । सदेके कर्म वा ब्राह्मज्ञानं वैदिकमुच्यते ॥ १५ ॥ . फ. प. छ. चति । १ क, छ. नेष्यते ।। क. ग. छ, “लश्रुत्या । ३ + । २