पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. रवि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २०१ उपांशुयानार्थत्वेऽपि धौवस्य न पुनरभिघारणम् । प्रत्येकं ग्रहणात्पूर्व तस्यैकत्वादसं- स्कार्यत्वाच | नाऽऽवृतिः प्रतिपत्तेः । अन्तत इति यावन्ति मध्ये संभवन्ति सावतां कृत्वेति दर्शितम् ।

आज्यभागाभ्यामाज्यहविर्भ्यां प्रचरति ।

आज्यभागाविति द्वयोः कर्मणो मधेयम्, आज्यं भागो मागधेयं ययोस्ती, तथाऽपि रूढिः, सरस्वत्यान्यभागेति योग एवेति ज्ञेयम् । आज्यद्रव्योत्पत्तिविधिस्तु सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्यामिति दर्शयितुमुक्तमाज्यहविया॑मिति, आज्यं हविर्ययोस्तौ तथा (ताभ्यां), प्रचरति अनुतिष्ठते (ति)। यजतीति वक्तव्ये साझे यज्यर्षे प्रचरतिः प्रयुक्तः । अत्र चतुरवत्तं पञ्चावत्तं वा विहितमाज्य, याज्यापुरोनुवाक्यावती. विति वचनान्नोपस्तरणाभिघारणे पुरोडाशसानाय्ययोरिति तयोविधानात् । ततस्तु नुच्युपस्तीर्य मा मेरित्यभिमृश्य तथाऽवदायाभिघार्य हविः प्रत्यभिधारयतीत्यन्तं पुरो- डाशसांनाय्ययोरेव ।

तौ प्रबाहुग्ज्योतिष्मत्युऽत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमाय ।

प्रबाहुक्समौ सज्वाले । उत्तरो माग आयतनस्योत्तरार्धस्तथैव दक्षिणार्ध इत्यपि ज्ञेयम् । उत्तरार्धपूर्वार्धे दक्षिणार्धपूर्वार्ध इति बौधायनापस्तम्बाभ्यामुक्तम् । गृह्ये स्वयमपि तथैव वक्ष्यति । श्रुतिस्तु पूर्वार्धे जुहोतीत्युपक्रम्योत्तरार्धेऽग्नये जुहोति दक्षिणा सोमायेति स्पष्टैवास्ति । तथाऽपि तिर्यञ्चावाघारौ थदा तदाऽऽधारस्य खुच्यस्य प्रधानाडुतीः प्रत्यधिकरणताऽऽघारौ च मध्ये तयोः प्रान्ते दक्षिणार्धपूर्वाध. मात्र एवाऽऽन्यमागहोमे सति वक्ष्यमाणं तावन्तरेणेति युज्यते । तस्मादाबारानुरोधेनै. वाऽऽज्यभागयोः स्थान नियतमिति वक्तुं दक्षिणार्धपूर्वार्ध इत्याधुक्तम् ।

तावन्तरेणेतरा जुहोति ॥ ५॥

ज्योतिष्मतीत्यनुकर्षः । इतरा आहृतरिति शेषः । आज्यभागाम्यामित!स्ताः प्रयाजानुयाजाहुतिभ्यस्तासां नियतस्थानत्वादत्र दविहामाहुतयो नियम्यन्ते । अत्र विशेषश्चतिराथर्वणिकी—'यदा लेलायते ह्यचिः समिद्धे हव्यवाहने। तदाऽऽज्यभागाव- न्तरेणाऽऽहुतीः प्रतिपादयेत् ' इति । तथैवाऽऽपस्तम्वेनाप्युक्तम् ।

आज्यभागौ प्रति स्रुचावादत्ते न निदधात्या स्विष्टकृतः ।

प्रति लक्षीकृत्य पूर्वकाले पूर्व घृतवतीमध्वयों सुत्रमास्यस्वेत्यत्र गृहीतयोनिधानेs. नुक्तेऽपि पुनरादत्त इति वचनेनानुवादो मध्ये निधानप्रतिषेधार्थः । पूर्व गृहीतयोरर्थप्राप्ते निधानेऽपि न दोष इदानी गृहीतयोर्मध्ये निधाने प्रायश्चित्तमर्थे वाचमनादौ प्राप्तेऽ. १च. ट. "स्य पु। २ घ. उ ज. अ. न. ढ. 'प्मती जुहोत्यु । ३ क. ख. ग. च. छ. ठ.नं ननि। र घ. उ. ज. श. त्र. द, यजति । ५५. ङ. ज. श. म. द. प्रभृति ।