पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । देऽपि याज्यासु देवसाध्यानं श्रुतिप्राप्त कुत्र का देवता तैस्तैः शब्दै प्रतिपायेति यावन्न ज्ञायते तावन्न ध्यानं कर्तुं शक्यमित्यस्ति देवतानिर्णयप्रयोजनमिति । ततस्तु बौधायन- मतेऽपि समिदादिशब्दवाच्या ऋतव इत्येव निर्णयो न तु वसन्तादिशब्दरुद्देशः कार्य इति । ननु पञ्चमप्रयाने तु संनिपत्योपकारक यक्ष्यमाणदेवतासंस्कारकत्वं, तत्र स्वाहा. कारो नामधेयं सत्र कथं देवतानिमित्तता नामधेयस्याग्नेर्वा कथं ते शब्दाः प्रतिपादका इति च । उच्यते--स्वाहाकारो मन्त्ररूपस्वाहेत्ययंशब्दः । तस्य. निरुक्तं स्वाहेति मुष्ठ आहेति वा स्वा वागाहेति वा सं प्राहेति वा स्वाहृतं हविर्नुहोतीति वेति । व्याख्यातं च तद्भाष्ये तात्पर्य सुष्टु आहेत्येवमादि । तत्स्वाहाकारस्य जन्मेति ब्राह्मणम् । स्वाहा क्रियते याभ्यस्ताः स्वाहाकारा देवता अग्निं स्वाहा सोमं स्वाहेत्याचा द्वितीया. निर्दिष्टा एता एव देवता आज्यपा अतः स्वाहाकारशब्देन देवतासामान्यवाचिना पश्च. मप्रयानोऽपि स्वाहाकारः । अत्र लिङ्गं स्वाहाकृतीभ्यः प्रेष्येति पशौ । ततस्तु विकृ. तिषु याज्याशब्दैरेव त्यागो ध्यानमानीसूक्ते निरुक्त एव दर्शितं तत्तयैव प्रत्यकं ज्ञेयम् । वसन्तादिशब्दैर्देवलक्षकैर्यथा प्रकृतावनुमन्त्रणमेवं तैरेव शब्दैर्लक्षकैरेव विकृतिप्वप्यनु- मन्त्रणमिति नोहः । अनुयानेषु तु याज्यागतर्देवहिरादिशब्देरेवोद्देशोऽनुमन्त्रणं च बहिषोऽहमित्यादि कर्मसमवेतार्थप्रकाशकैरेवं प्रकृती दर्शनात्तथैवोहेन याज्यादेवता अनुमन्त्रणे प्रतिपाद्या इति निर्णयः । येऽनिशब्देनोदिशन्ति तेषां मते क्रियमाण अहोऽ. नुयामेष्वनुमन्त्रणे स्वप्रामाणिक एव भवेत् । कुतः । न बहिपोऽहं देवयज्ययेत्यनुम- त्रणं समवेतार्यप्रतिपादकमभिधयाऽथ लक्षणया तहि प्रयाजैरेव समः समाधिरित्यल. मतिप्रसङ्गेन विदांकुर्वन्तु न्यायविदः ।

समिधः पुरस्ताद्यजति तनूनपातं दक्षिणत इडः पश्चादर्धमौपभृतस्य जुह्वामानीय बर्हिरुत्तरतो यजति स्वाहाकारं मध्येऽपरेण वाऽऽघारसंभेदं पूर्वं पूर्वꣳसꣳहितꣳ समानत्र वा सर्वान् ।

समिद्यागे पुरस्ताप्नहोति मध्यात्पुरस्तादित्यादि क्षेयम् । अपरेण पाऽऽधारसमे- दमिति पूर्व पूर्व संहितं पश्चार्थे पूर्व पूर्वमिति पश्चिमेन पश्चिमेन संहितं प्रायो यनती. त्युक्तः संनिवेशविकल्पः । तथैवोक्तं वैखानसेनापरेणाऽऽघार संमेदं प्राचो वेति । आधारयोर्यत्र प्रदेशे संधानं तत्र मध्यदेशस्तमपरेण तस्य पश्चारसभेदस्य समीपे समानौकस्मिन्नेव स्थाने तत्रैव संनिवेशविकल्पः । प्रतिदिशं सततं प्राचीन समानत्र वेति त्रयः पक्षास्तत्र सर्वेष्वपि पक्षेषु अर्धमौपभूतस्य जुवामानीय बहिर्य- जतीति । आनीय वहिरिति बहिरेवाऽऽनीतेन यजतीत्युक्तं तेन जुहुगतेनाऽऽधास्त्रय- १ क. ग. च... स्यामे या क।