पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने- तारमित्यर्थात् । यज्ञ यजेत्येवं वीप्सा सर्वापेक्षया प्रतिप्रयाज यजेति संप्रेष्यति । नन्वत्र समिध इति कर्मनामधेय समिधो यनतीस्युत्पत्तिविधौ श्रुतं न संप्रेषेण संवध्य- तेऽतो देवता एता देवता हि यष्टव्यत्वेन प्रतिपाद्याः प्रैषे तथैवान्या दर्शनात् । यदि देवता एता याच्यावगतास्तदा यदुच्यते-प्रतवो वै प्रयाना ऋतूनेव प्रोणातीत्यादिदेव- ताप्रतिपादनं तत्तदा विरुध्यते । तदेवत्याः प्रयाजा मवन्तीति बौधायनोक्तमपि विरुध्येत । तथा निरुक्तकोरेणापि यदुक्तमाग्नेया वै प्रयाजा आग्नेया अनुयाजा इति माह्मणमित्यादिना नानाबाह्मणैर्नानादेवतात्वमाशङ्कयोक्तमाझेया इति तु स्थितिरितर- द्भक्तिमात्रमिति निर्णीतं तदपि विरुध्येत । अत्रोच्यते-समिच्छब्देन कर्माभिधानमेव, उत्तरानिति सममिव्याहारात् । न ह्युत्तरशब्देन देवतोपस्थितिर्भवति । विशेषणं ह्युत्तर शब्दः । तस्य सापेक्षस्य विशेष्यं नोपलम्यतेऽसोऽनुवृत्तं प्रयानमित्येव संबध्यते परि- णतं प्रयानानिति । अत्राप्युत्तरेषु प्रयाजेष्वित्यर्थः । समिध इत्येतद्वितीयान्तं यजेत्य- नेन संवध्यते समिधो यति दर्शपूर्णमासे। यजत इतिवत् । देवतानिर्णयस्तु-अत्र सद्धितेन चतुर्थ्या वा देवताप्रतीतिस्तु नास्त्येव, मन्त्रवर्णादेव देवतानिर्णयः । तत्र याध्या एवान्तरङ्गा बहिरङ्गं याजमानं वसन्तमृतूनां प्रीणामीत्यादि । नामापि देवतानि- मित्त समिदादि याज्यादेवता एवानुसरति । तत्रापि समिदादिशब्दाच्या एव देवताः। पीमांसका अपि ह्यभ्यासाधिकरणादौ मन्त्रवणसिद्धदेवतानुवादि नामधेयमित्या नवमस्य द्वितीयपादेऽपि । याज्यासु सर्वत्राग्निरपि श्रूयते समिधो अम आज्यस्य व्यन्वित्यादी तथाऽपि न नाना नापि व्यन्त्वित्यनेन चाग्निशनः संबध्यते । सामानाधिकरण्येन समिदादिशब्दाः भूयन्ते । उत्पत्तिवाक्ये च समिदादिशब्दा एव देवतानिमित्तानि नामधेयानि श्रूयन्ते । नानिशब्दोऽप्यग्निदेवतानिमित्तं नामधेय श्रेषेऽपि समिच्छब्द एव । ततस्तु समिदादिशब्दैरवोद्देश इति सूत्रकृतोऽभिप्रायः । कुतः, यतो याज्यासु व्यन्विति बहुवचन प्रथमपुरुषो नाग्निशब्दान्वयिनाविति । हेऽमे ते तनुवः समिध इत्य- न्वयः । निरुक्तमप्याग्नेयत्वं वदन्न शब्दमन्यथयति किंतु समिदादिशब्दप्रतिपाद्या देव- ताऽग्निरित्येव, तदप्युक्तं तेनैव प्रयाजान्मे अनुयानांश्चैत्यनयर्चाऽग्निना मागा अथितास्ते भागास्तव प्रयाजा इत्यनय तस्मै ते प्रयाजानुयाजा मागत्वेन देवैर्दत्ता इति प्रयाना- नुयाजदेवता अग्निरूपेण ध्येया इति प्रतिपादितम् । तत्रैवोक्तं किमर्थमिदमुच्यत इत्या. शङ्कय यस्यै देवतायै हविगृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्निति परिहारेण सप्रयोजनतोक्ता । अत्राऽऽशङ्काभिप्रायः-याज्याभिर्देवता प्रतिपादिता सा येन शब्देन यत्र प्राप्ता सा तेम शब्देनैव देवतात्वं लभते न शब्दान्तरेण । ततस्तु नाना- ब्राह्मणोदाहरणैरनेकदेवतत्वप्राप्तिस्तन्निराकरणमाग्नेया वै प्रयाना आग्नेया अनुयाजा इति निर्णयोऽपि निरर्थकोऽनुष्ठानशब्दयोमैदाभावादिति । उत्तराभिप्रायस्तु शब्दाम: