पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - २द्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १९७ क्रामं समानत्र वा तिष्ठन्निति यजिना गृहीतं पश्चादावयवसमाख्यानादध्वर्युकर्तृके. बङ्गेषु होमेष्ववान्तरवाक्यबलादशावतारन्यायेन च होमेष्वेवावतरतीति दर्शितम् । तथा च कुतोऽभिक्रम्यामिक्रम्य जुहोतीति केन वा समानस्थाने स्थित्वा जुहोतीति शाखान्तरीयेऽप्याकाङ्क्षा पूरिता यानि प्रयाजाङ्गान्यवंयुकतकाणि तेषां स्थाना- दिति तेन च समानत्रेति च तबाऽऽश्रावणं यजेति प्रेषस्तयोः स्थानादमिकाममिति णमुल्, अमिक्रम्याभिकम्येति, तथा तेन स्थानेन समानस्थाने तिष्ठन्निति चाध्वर्युकर्तृ- कता सिध्यति, तथैवार्थों निषेध्यत्वेन विधेयत्वेन च सोमे दर्शितः शब्दार्थः । यतो मन्येतानभिक्रम्य होण्यामीति तत्तिष्ठन्नाश्रावयेदिति तस्मात्समानत्र तिष्ठता होतव्यं प्रतिष्ठित्या इति, तथा यदमिक्रम्य जुहुयात्प्रतिष्ठाया इयादिति च प्रतिषेध्यत्वेन चोक्त, तेम समानार्थतयाऽत्रापि तदेव व्याख्यानम् । ननु न विधान्तरमस्ति यत्परिसंख्य- याऽमिक्रमणानभिक्रमणे विधीयते अन्यतरस्य नित्यप्राप्तत्वात् । उच्यते-पच्चस्वप्य- न्यतरनियम्यते तथाचार्थवद्भवति पञ्चाप्यमिक्रम्याभिकम्याथ वा समानत्र तिष्ठन्नेव पञ्चापीत्ययमेवार्थः पञ्चेति संख्यया दर्शितोऽन्यथा बहुवचनेनैव सर्वधर्मसिद्धिः । तथा च सवषट्कारेषु होमेषु सर्वत्रान्यत्र विना सोमं न नियमोऽभिक्रमणानभिकम- णयोरित्यप्यर्थीसिध्यति । प्रवरं प्रवृत्येत्यसंनिहितस्मरणार्थमुक्तम् । आदावेवाभिकान्तो न तु पुरोनुवाक्याप्रैषो व्यवधायकोऽस्ति । पुनः प्रत्याक्रमणमपि तत एव नास्तीति यक्तुं सदित्युक्तम् ।

द्वेष्यस्यावक्रामन् (म्) ।

यतीत्यन्वयः । निन्दावादोऽयं निषेधार्थः । न हि यजमानोऽध्वयोर्भवति द्वेप्योऽवक्रम्याऽऽश्रावणस्थानात्पश्चाद्गत्वा न जुहोतीत्यर्थः । पृथिवी होतेति याज- मानम् ।

समिधो यजेति प्रथमं प्रयाजꣳ संप्रेष्यति यज यजेत्युत्तरान् ।

'प्रथम प्रयाजमिति सप्तम्यर्थे द्वितीया । अत एव कात्यायनः-समिधो यति पञ्च प्रयामान्समिद्धतम इति । समिद्धतमः प्रथमः प्रयाजः । तथा श्रुतिः-समिधहो(दो). मेन समृद्ध आहुत इति । समिद्धतमत्त्वं प्रथमस्य तथा च संप्रेषः पञ्चानामप्यर्थ इत्युक्तं स्यात् । भरद्वाजेन प्रथम इति चोक्तम् । तन्त्रेणायं पञ्चानां प्रैषः समिच्छब्देन लिङ्ग- समवायेन प्राणभृत इतिवत् । अत्र वचनान्नामधेयेनैव श्रेषः । अन्यत्र यननीयां देवता- मुद्दिश्यैव प्रेषो यथाऽग्निं यज सोमं यजेति । अतस्तु विकृतौ समिच्छब्देन याज्यायां पशौ देवताश्रवणाभावेऽपि प्राकृतनामधेयेन विकृती प्रवृत्तेन समिद्भ्यः प्रेष्येत्युपपद्यते । प्रयाजग्रहणं न कर्तव्यमधिकरणादेव प्राप्तः । कर्तव्यं प्रत्येकं संज्ञा यथा स्यात् । हो- १स.धिकारादें । ।