पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E २वि०पटल महादेवकृतवैजयन्तीब्याख्यासमेतम् । १९५ स्वात् । एवं तहि ज्ञापयत्याचार्यो न व्यवदानमात्रेण यागोऽपि तु सकलपुरोडाशेनैव- ततस्तु याज्यया अग्मते वेदिगते च द्रव्ये वषट्कारेण दत्ते पश्चात्सर्वोऽपि शेष एवेति तस्मात्प्रत्यभिमर्शनं प्रत्यभिधारणं च न स्विष्टकृतीति । ननु श्रूयते वाजसनेयके तस्मा- यस्य कस्य च हविषोऽवद्यति पुनरेव तदभिधारयति स्विष्टकृत एव तथाप्याययतीति स्विष्टकृदर्थत्वश्रवणावेदावनीयाज्यार्थत्वमिति चेत् । न । सा प्रत्यभिधारणस्तुतिः पुनरेव तदभिधारयतीत्यस्य विधेर्ह विर्दीयमानं वेदिस्थमपि तेन संस्कृतं नाऽऽहवनीय- गामि तद्धि व्ययित कथं स्विष्टकृतेऽवदेयमतः प्रत्यभिधारणेन व्ययितस्याऽऽप्यायने मति स्विष्टकृदयदानयोग्यतासंपादनेन स्तुतिः प्रत्यभिधारणविधेरेव | व्याख्यातमेतन्मी- मांसापारदृश्वभिर्वातिकाचार्यः सर्वस्य पुरोडाशस्य यागाङ्गत्वं न व्यवदानमात्रस्येति । स्च्युपस्तीति क्वाप्रत्ययेन मा मेरित्यभिमर्शनस्योत्तरकालतोक्ता, तेनोपांशुयान उपस्तरणामावाद्धौवस्य नाभिमर्शनम् ।

अवदायावदाय प्रस्तरबर्हिः समनक्तीति विज्ञायते ।

अवदाय चतुरवत्तं तस्यैव पदार्थत्वात्तदसमाप्तौ नान्यारम्भः । वीप्सा तु सर्व हविषा सकृदन्ते मा भूत्पतिचतुरवत्तं यथा स्यादिति साज्येन स्वेण [इति] वैखानसः । धर्ममात्रमेतदिति वक्तुं विज्ञायत इत्युक्तम् ।

अपिदधदिवाप्रक्ष्णन्पुरोडाशाहुतिं जुहोत्याज्यꣳ हुत्वाऽवदानं जुहोत्याज्येनान्ततोऽन्ववस्रावयति ।

पुरोडाशाहुर्ति जुहोति तामेवापिदधदिवेषपिहितां कुर्वन्सुचः पुष्करेण तामेवाप्रक्ष्णन विशीर्णयस्तत्रैव विशेषमाहाऽऽज्यं हुत्योपस्तरणाभिधारणाज्यमादावाइतिस्थाने मुखेन नावयित्वा तदुपर्यवदानद्वयं पार्श्वनोत्तरेण हुत्वाऽपिदधदित्यस्य सामर्थ्यात्पावेनेति गम्यते, मुखेनेतरा इति विशेषविधेः पुरोडाशाहुतीः पार्थेनैव हुत्वाऽन्ततोऽनन्तरमेक हुतावदानमवशिष्टेनाऽऽज्येन मुखेनैवावस्रावयति श्रोतद्धृतप्लुतं करोति । उक्तं भाग- वते-श्वोतद्धृतप्लुतमदन्हुतभुङ्मुखेनेति । आज्यमानाय्ययोहविषोर्यागे नैतत्संभवति आज्य हुत्वाऽवदानं जुहोतीति । तस्य पृथग्मावाच्चतुरवत्तं पञ्चावत्तं वा जुहोतीत्येता- चामेव सामान्यविधिः।

मुखेनेतराः स्रावयति ।

इतरा आहुतीराज्यसानाय्ययोः, दर्विहोमाहृतिमार्थ लावणयोन्या यवान्यायाहु. तिरपि मुखेन मांस पार्श्वनेत्याहुः । अत एवाऽऽपस्तम्बनाक्रे सर्वाणि द्रव्याणि मुम- खेन(ण) जुहोतीति । तदिदमितरा इति बहुवचनेन सूचितम् । . घ. छ. ज. श. ज. द. "हुतीर्जुहो । २ क. ग. च. छ. द. 3. 'थगभावा । ३ क. ग, च. छ, ट. ध सुवेण।