पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- रद्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । दृश्यते । तत्रानुमन्ता समानानां स आनुजावर इति व्युत्पादयन्ति केचित् । अथवाऽनु साम्येन जाता अनुजा एव आनुजास्तेषां वरमथवा पश्चागामिनो यम्या इति यावत्तेषां श्रेष्ठः स आनुजावर इति नानार्थवादानुमारेण कल्प्यम् । केचिदयं काम्यः कल्प इत्याहुरर्थवादेभ्यो यो राजन्य आनुजावरः स्यादित्यादौ तथा दर्शनादिति तन्नाऽऽचार्य - स्येष्टं, जघन्यमित्यनूध प्रथमत्वं विधीयते, यदि कामार्थमपूर्व विधानं तदा जघनात्प्रथम मवदानमिति विशिष्ट विधीयेत । न चोत्तरसूत्रमेतदर्थं भवत्यत एव वैखानसेन नियम.. विधानं कृतमषदायेत्यादि, कामपद एवमिति । तस्मात्प्रकृत्याऽऽनुजावरस्य यजमानस्य विशेषविधिनित्य एव ।

अवदाय पूर्वार्धे स्रुचो निदध्यात्प्रथमं जघन्यं पश्चार्धे ।

प्रथममवदानं यन्मध्यादवत्तं तत्स्नु चः पूर्वाधे विलस्य पूर्वस्मिन्नर्धभाग एवं निदध्या- जघन्यमनन्तरमवत्तं सद्वितीयं तृतीयं च वा तत्पश्चार्धे नुच इत्युभयत्र संवन्धः। तदुक्तं स्पष्टं वैखानसेन-पूर्वाधैं खुचो निधाय प्रथमं पश्चावें जघन्यमिति । तेनाऽऽनुजा. वरपक्ष एव मोक्तो येन जघन्यपदेनाऽऽनु नावरविषयताशङ्का स्यात् । आनुजावरस्यापि तथैवावत्तं प्रथम पूर्वाधे न्यस्य जघन्यं पश्चादवत्तत्वात्तत्पश्चार्ध इत्यपि संभवात् । ननु कथमानुनावरस्य पञ्चायत्तिनो द्वितीयतृतीयावदानक्रमः । उच्यते-पश्चाघायदा प्रथमं द्वितीयं तु पूर्वार्धात्तृतीयं मध्यादिति । अत एवाऽऽनुजावरस्य चतुरवत्तिन उक्तमापस्तम्भेनाऽऽनु नावरस्य पूर्वार्धात्प्रथममवदानमनदाय पूर्वाधे त्रुचो निदध्यान्म- ध्यादपरमवदाय पश्चाधे सुच इत्युक्तम्(ति) । एवं चास्मत्सूत्रे तथा व्याख्यातुं शक्य यच्चतुरवत्तिनो जघन्यं यदवदानं द्वितीयमित्यर्थः, तत्प्रथमं चतुरवत्तिन आनुजावरस्य तयैव पश्चावत्तिन आनुनावरस्य यद्यजघन्यं यस्माद्यस्मादनन्तरं कृतं तत्तस्मात्तस्मात्पूर्व पूर्व कर्तव्यं, तेन मध्यावदानात्प्रकृतौ जघन्यं तत्तस्मात्पूर्वम् ।

पूर्वपूर्वाण्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य ।। ४ ।। पुरोधाकामस्य वा ।

पूर्व पूर्वभागस्थं पूर्व प्रथमं येषामवदानानां तानि पूर्वपूर्वाणि ज्येष्ठस्य प्रथमोत्पन्न , स्य तस्यैव उयैष्ठिनेयत्य ज्येष्ठा भार्या तस्याः पुत्रस्य तादृशस्य यजमानस्य पञ्चावत्तिन. श्वेत्पूर्व मागात्प्रथमं द्वितीय मध्यात्तृतीयं तु पश्चाधीच्चतुरवत्तिनस्तु ज्येष्ठस्य ज्यैष्ठिनेयस्य तृतीयं नास्ति । तृतीयापेक्षया च द्वितीयं मध्यस्थं भवत्येव पूर्वभागस्थं तृतीयापेक्षया च प्रथमं च कर्तुं शक्यमिति नित्यविधिरयम् । पुरोधा पौरोहित्यं तत्कामस्य काम्यम् ।

अपरपूर्वाणि कनिष्ठस्य कानिष्ठिनेयस्याऽऽनुजावरस्य वा ।

, ख ठ याम्या । २ ख. ट. नित्य ए। २५