पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रभे- संवन्धीनि तथा । अत्र न वाम्यामिति सूत्रेणैनागमादूपासिद्धिः। ऐडानि चातुर्धाकर. णिकानि समान्येव ।

माꣳससꣳहिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति स्रुवेणाऽऽज्यसांनाय्ययोर्मेक्षणेन चरूणाम् ।

अवधतीत्यनुवर्तते । चरौ हस्तावदाने चोदकप्राप्ते मेक्षणेनेति तत्सामर्थ्यादित्युक्तम्। श्रुतिहि त्रुवेणावधति हस्तेनावद्यति मेक्षणेनावद्यति स्ववितिनाऽवद्यतीत्यविशिष्टा सा नियमिता सामर्थन हस्तेनेत्येतस्य शास्त्रान्तरवशान्माससंहिताम्यामङ्गुलीम्यामगुष्ठेन चेति विशेषपर्यवसानेन विधिदेशितः । अत्र सामर्थस्य व्यवस्थापकत्वेन वपायाः सोनाय्यविकारत्वेऽपि हस्तेनैवावदानमोषधिविकारचरुयवाग्वोर्मेक्षणेन सुवेण वेति दर्शि- सम् । मांससंहिते संलग्ने सर्वाङ्गुलीनां तथात्वादुमयतो मांसेन लग्ने इत्यर्थसिद्धे मध्यमे द्वे । अत एव वैखानसेनानामिकामध्यमाम्यामित्युक्तम् ।

मध्यात्पुरोडाशस्यावदाय पूर्वार्धादवद्यति पश्चार्धात्तृतीयं पञ्चावत्तिनः ।

अत्र स्थाननियममात्रं पुरोडाशविषयं वक्ष्यमाणधर्मा आज्यसांनाय्ययोस्तु मध्यादि. विभागेऽपि तदभावः । प्रथममवदानं पुरोडाशस्योपरि मध्यप्रदेशादवदाय सुचि स्थाप- यित्वा ततः पूर्वार्धात्पुरोडाशस्य पूर्वो योऽ? मागोऽसौ पूर्वार्धस्तस्माद्यत्र कुत्रचिदव- यति पूर्वार्धाव्यभिचारेण तदपि नुच्यवधाय जामदग्न्यस्य तदनुमतस्य या पञ्चायत्तिन- स्तृतीयमवदान पश्चार्धात्पूर्वार्धवव्याख्या । अत्र विशेषमाहाऽऽपस्तम्बः–'मध्यादङ्गुष्ठ- पर्वमात्रमवदानं तिरश्चीनमवद्यति पूर्वार्धाद्वितीयमनूचीनम् ' इति । वैखानसेनोक्तं तत्प. वार्धात्तृतीयमिति, द्वितीयवत्तृतीयम् । दक्षिणप्रदेशे हस्तं नीत्वाऽङ्गुल्यङ्गुष्ठाग्राण्युदङ्- मुखानि तैः कृत्वा दक्षिणोत्तर देण कृतमवदानं तिरश्चीने पूर्वाभिमुखानुल्यौरवत्तम- नूचीनम् । अतमिन्दन्निति विशेषान्तरमुक्तमापस्तम्बेन । संभेदो मध्ये द्वयोमर्यादार्थ इति कात्यायनमतिस्तन्नेष्टमित्यसभेदः संश्लेष उक्तः । संश्लेषात्पूर्वावदानप्रदेशादवदान- योत्संश्लिष्टप्रदेशे परमवदानं कुर्यादित्यर्थः । अस्मदाचार्येण तु यत्रासंमिन्दन्नषद्य- सीत्युच्यते तत्रैव नियमोऽन्यत्र न नियम इति तथोक्तम् । वृतीयं पश्चा/दित्युक्तं तस्यापवादमाह -

आनुजावरस्य जघन्यमवदानं प्रथमम् ।

प्राप्ते प्राथम्यमात्र नियम्योऽन्यथाऽवदानमात्रस्य प्राप्तत्वाद्विशिष्टविध्यसंमवाजध- न्यत्वप्रथमत्वयोर्गुणयोः परस्परासंबद्धयोविधाने वाक्यभेदः स्यात्तस्मात्प्राप्तमवदान जघन्यमनन्तरं कृतं प्रथमापेक्षया जघन्यं पूर्वकृतात्पश्चात्कृतत्वाच तत्र प्राथम्यं निय. म्यते । आनुजावरशब्दस्तु प्रजापतिरिन्द्रमसृजताऽऽनुजावरमित्यादौ समानानां श्रेष्ठे