पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यागश्च २द्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १९१ ताम्यां दीयमानत्वेन तद्वतीषु देवतांतीलक्षणयागेषु याज्यापुरोनुवाक्यावतीषु पूर्व याज्या. पुरोनुवाक्यावतीषु ताभ्यां दीयमानावित्यर्थः । आज्यभागयोरित्यादिना यागेषु च याज्यादेवताविधानात् । तासु प्रसक्तासु देवत्य(त)योश्चतुरवत्तं पञ्चावत्तं सदेव जुहोति दीयमानं चतुरवत्तं पञ्चावत्तं वा कृत्वैव पश्चाज्जुहोतीत्यर्थः । अवदानानि(ना) देवतार्थत्वे लिङ्गं वक्ष्यति हि अशष्ठपर्वमात्राणि देवतान्यवदानानि । देवतायै यागे च संबद्धानि देवतायास्तानि दैवतान्यवदानान्यवदीयमानान्यपृष्ठपर्वमात्राणीति विवक्षितत्वात् । न चैवमवदानमात्रार्थत्वं यागस्येति । आज्यभागाभ्यां प्रचार उक्तस्तथा बीयमिधार- यतीत्यनुवृत्त। यदनुपूर्वाणि प्रदीयन्त इत्यभिधास्यमानत्वाद्धविषामेव प्रदेयत्व इन्द्र- स्यापि प्रतिहविः प्रत्यमिधारयतीत्यत्र । यागो हि सकलपुरोडाशसानाच्यसाध्य उत्पत्तिविधौ तथा श्रवणात् । देवतोदशेनोत्पादितस्य सकलस्थापि द्रव्यस्य खुच्यवदानमेको भागोऽन्यश्च वेद्यां स्थितो याज्यानुवाक्याभ्यां वषट्कारा- न्ताभ्यां भागद्वयमपि दीयते, तत्रैकस्य भागस्यावदानरूपस्यैव होमन प्रतिपत्तिस्तस्यैव चतुरवत्तं पञ्चावत्तं वाऽन्यस्य वेद्यामवस्थितस्य भागस्य स्विष्टकृदादिना प्रतिपत्तिः श्रुत्यन्तरे चतुरवत्तं पञ्चावत्तं वेति तव्यवस्थापितमितरेषां जमदग्नीनां च यजमानानाम- ध्वर्यु होतीत्यर्थः । इदं चोक्तं वक्ष्यमाणं च धर्मजातं पुरोडाशाज्यसांनाय्यहविस्त्रयं साधारणमेव । जामदग्न्यो जामदग्न्यौ जमदग्नय इति बहुत्वे प्रत्ययस्य लुक् । गोत्र- गोत्रिणोरभेदागोत्राणामित्युक्तम् ।

अप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत ।

अजामदग्न्योऽपि जामदग्न्यं पृष्ट्वा जामदग्न्य पश्चावत्तं करिष्यामीति पश्चात्पञ्चावत्तं कुर्यादित्यर्थः ।

अङ्गुष्ठपर्वमात्राणि दैवतान्यवदानानि भवन्ति ।

अगुष्ठपर्वमात्रं हस्तस्याङ्गुष्ठस्य मध्यसंधेरू काण्ड पर्व तत्प्रमाणानि पर्वमात्राणि यावन्ति देवतान्याज्यसांनाय्ययोरपि तावतां परिमाणम् ।

उत्तराण्युत्तराणि स्थवीयाꣳसि ।

सामान्यविधिरयं श्रोतः। तं व्याचष्टे-

दैवतेभ्यः सौविष्टकृतानि सौविष्टकृतेभ्य ऐडानि तथा चातुर्धाकरणिकानि ।

दैवतेभ्योऽवदानेभ्यः स्थवीयांतीति पूर्वेणापि संबन्धः । एवमुत्तरत्रापि स्विष्टकृ.

३ ख. र. 'तान्यती । ३ क. ग, च, छ. ट, ठ. "नुरूपावदानानि न ।