पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयपने-

कथं संप्रेष्यति तत्राऽऽह---

अमुष्मा अनुब्रूहीति यथादेवतम् ।

अमुष्मा इति चतुर्थ्यन्तेन देवतानाम्ना संप्रेष्यति यथादेवत या यत्र देवता तस्या

दक्षिणतो याज्यामत्याक्रम्याऽऽआव्य प्रत्या- श्रावितेऽमुं यजेति यथादेवतꣳ संप्रेष्यति ।

अत्याक्रम्य दक्षिणतः स्थित आश्राव्याऽऽग्नीण प्रत्याश्राविते सति यथादेवतम, यजेति याज्या संप्रेष्यतीत्यन्वयः । अमुमिति द्वितीयान्तं देवतानाम गृहीत्वाऽग्निमिति ततो यजेति संप्रेष्यति ।

वषट्कारे वषट्कृते वा जुहोति याज्या पुरोनुवाक्यावतीषु चतुरवत्तं पञ्चावत्तं वा ।

वषट्कृते सह वषट्कारेण वेति श्रुतेर्वषट्कारे प्रदानार्थे क्रियमाणे तेन सहवाथवा वषटकारे कृते वाऽऽहुर्ति जुहोति प्रक्षिपति जुह्वाऽऽहवनीय इत्यर्थः । अत्र जुहोति- ना दानं न विधीयते वषटकारेण प्रदीयमानस्य प्रत्तस्य[वा] पुनर्दानायोगात् । प्रक्षेप. मात्र होमभक्तिर्जुहोतेर्वाच्या । अत्र प्रयानानुयाजेषु प्रत्येक विभागाभावाद्वक्ष्यमाणं चतु. गृहीतं पञ्चगृहीतं चै न संभवतीति तदर्थमिदं सूत्रं सामान्येन कृतमनिमं तु विशेषेण चै पृथगेव कृतं(त)[मिति] विशेषः ।

पञ्चावत्तं जमदग्नीनां चतुरवत्तमितरेषां गोत्राणाम् ।

जुहोतीति पूर्वसूत्रादनुवृत्तिः । याज्यापुरोनुवाक्यावतीवित्यत्राऽऽतिष्विति शेपो योग्यत्वात् । आहुतयो होमक्रियास्तिस्त्र आहुती होत्याहुतिपरिमाणं वेति दर्शनात् । पुरोनुवाक्यायुक्तवषट्कारान्तयाज्यया क्रियमाणत्वाद्याज्यापूरोनुवाक्यावत्य आहुतयो भवन्ति । तासु क्रियमाणासु सतीषु यद्वषट्कारोपलक्षितं जुहोति तच्चतुरवत्तं पञ्चावतं वा जुहोतीत्यन्वयः । पूर्वं चतुष्पञ्च वाऽवत्तं संपादितमेव जुहोति नान्यथेति गम्यते । द्याहुतयो होतव्यानि द्रव्याणि, जह्वाऽऽहवनीय आहुतयो यन्त इति दर्शनात् ता च पूर्व च याज्यानुवाक्यावत्त्वं ज्ञेयम् । तासु प्रसक्तासु सतीषु यज्जुहोति तच्च- तुरवत्तं पश्चावत्तं वा कृत्वा जुहोति । पूर्वमेव तथाऽवत्तं सज्जुहोतीति नियम्यते । अथ वाऽऽहुतिषु होतव्येषु(व्यास) द्रव्यरूपासु किंविशिष्ठासु याज्यापुरोनुवाक्यावतीषु १ ख. वा । २ क. ग. च. 8. 'कारोऽत्र याज्योपलक्षिका कि । ३ छ. ट. "रात्र याज्यों- पलक्षिका कि 1४ च. पाच । ५ ख. यदाऽहु' । ६ ख, 'सु पूर्ववद्याज्यापुरोनु । ७ च. द्रव्येषु ।