, १८८ सत्यापाढविरचितं श्रौतस्क- [द्वितीयप्रभ- घमर्षणवद्विश्वामित्रपदिति वदेत् । ततो ब्रह्मण्वदा च वक्षदित्यादि । अध्वर्युग्रहणमझी- निवृत्त्यर्थम् । होतुप्रवरे प्रसङ्गाह-
अमुतोऽर्वाञ्चो होतेति विज्ञायते ।
अमुतस्तृतीयादश्चिः, अवांगञ्चन्तीत्यर्वाञ्चस्तानर्वाञ्चो विपरीमान्पश्चादुत्पन्नप्रभृती. पूर्वपूर्वान् ।
पुरोहितस्य प्रवरेण राजा प्रवृणीते ।
राज्ञोऽध्वहोता वा स्वस्याऽऽयाभावात् । तत्रापि श्रुति प्रमाणयति-
पुरोहितस्याऽऽर्षेयेणाऽऽवेदयेदिति राज्ञो विज्ञायते निषादरथकाराश्च यमृषिमनुब्रुवते तेन तेषां प्रवरं प्रवृणीते ।
सेषामप्याधानमग्निहोत्रं दर्शपूर्णमासी च वक्ष्यत्याचार्यः, तदर्थमिदमुक्तम् । तेषा पुरोहितोऽपि नास्ति यमृषिमनुब्रुवते वंशोत्पादकत्वेन ।
तथा ब्राह्मणानां राजार्पितानां राज्ञां वा ब्राह्मणार्पितानाम् ।
अर्पकप्रवरेणेत्यर्थः ।
द्विगोत्रस्य त्रीꣳस्त्रीनेकैकस्माद्गोत्रावुपलक्षयेत् १
उपलक्षयेवुचारयेत् ।
तथाऽसंप्रज्ञातबन्धोः पुरोहितप्रवरेणाऽऽचार्यप्रवरेण वा ।
न जायन्ते बन्धयो वश्या यस्य तस्येत्यर्थः ।
कृत्स्नमेकेषां प्रवरं प्रतिषिध्य मनुवदित्येव विदधाति ।
एकेषां शाखिनां ब्राह्मणं सर्व प्रवर प्रतिषिध्याविशेषेण मनुवदित्येव ब्रूयादिति विदधाति । वक्ष्यति प्रवराध्याय मानव्यो हि प्रजा इति ।
ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इति प्रवरशेषः ।
पूर्वोक्ते सर्वत्रायं शेषो ज्ञेयः।
असाविति होतुरुपाꣳशु नाम गृह्णाति ।
प्रवर उच्चस्त्वाधिकारात्प्रथमैकवचनान्तं होतुनीम गृह्णाति ।
मानुष इत्युच्चैः ।
स्पष्टम् ।
सीदति होता।
+ घ. ज. श. अ. द. पुस्तकेषु अथासंप्रज्ञातेति पाठः । १ ख. थाऽज्ञा' । २ ख. घ. इ. ज. श. , ढ, 'त्येतद्विद ।