पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १८७ प्लुतः । 'वहिप्रेष्यश्रौषड्वोषडावहानामादेः' । प्लुत इत्यनुवर्तते । आदेर्वर्णस्य बू प्रे श्री वौ आ इत्येवेरूपस्य प्लुतो भवति । तथा ' अग्नीत्प्रेषणे परस्य च' इति, आश्रावयेति चाग्नीत्प्रेषणं तत्राऽऽदेवर्णस्य परस्य च वर्णस्य प्लुतिः । तेनाऽऽकारस्य लुतिः, श्रा, इत्यस्य चेति ज्ञेयम् । अग्नीग्रहणाद्ब्रह्मणा प्रसवे क्रियमाण ओमाश्रावयेत्यत्र प्लुतिन 4 भवेत् ।

एवमाश्रुतप्रत्याश्रुते भवतः ।

सर्वत्रेति शेषः । यत्र यत्राऽऽश्रावणप्रत्याश्रावणे दर्शपूर्णमासयोरुच्येते तत्र सर्व- त्रै प्रकृते प्रवरप्रकरण उक्ते अपि ये सर्वदर्शपूर्णमासार्थत्वेन याजमान उक्ते ते एव प्रवरार्थमुक्ते अपि सर्वार्थे ज्ञेये इति भावः । विशेषमाह-

उत्करे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयत्यन्येष्वाश्रावणेषु प्रवरात् ।

प्रवरविषयादन्येष्वाश्रावणेषु अध्वर्युणा कृतेषु सत्तु उत्कर इत्यादिविशेषणविशिष्ट आनीधः प्रत्याश्रावयतीति संबन्धः । अत्रेमसंनहनसहितस्यैव स्पषस्य ग्रहणम् । अत एवोक्तमापस्तम्बेन- समागाँश्च धारयन्निति । इध्मसनहनानि परिध्यग्नितमा- जनार्थतयोक्तानि । प्रकृतमाह-

प्रत्याश्राविते प्रवरं प्रवृणीते ।

गतम् । कथं तत्राऽऽह-

अग्निर्देवो होता देवान्यक्षद्विद्वाꣳश्चिकित्वन्मनुष्वद्भरतवदमुवदमु वदिति यथा यजमानस्याऽऽर्षेयꣳ सह परेण त्रीननन्तरान् ।

प्रवृणीत इत्यनुवर्तते । अत्र प्रवरेऽमुवदिति वीप्सया प्रवरिणामृषीणां नामधेयानि वैदति । त्रीनिति परिच्छिद्य ग्राह्याण्युक्तानि । ब्रह्मवदा च वक्षदिति वक्ष्यते, तेन वहून्परेण सह त्रीनेव वृणीतेऽनन्तरानव्यवहितान् । तत्र विश्वासाय श्रुति प्रमाणयति-

इत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ।

यजमानस्य प्रपरगणे ये मन्त्रकृत अपयः श्रूयन्ते तानू/नितः प्रथमोत्पन्नप्रवरि. णमृषिमारभ्येत्यर्थः । तथाहि कौशिके यजमाने मनुष्वद्भरतवदित्युक्त्वा कुशिकवद- क.ग. च. छ. ट. ठ, "हनैः ५। २ क. ग. च. छ. ट. उ. वदन्ति । ३ क, ग, च. 3. इनप ।