पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ सत्यापाढविरचितं श्रौतसूत्र- [रद्वितीयपने- मुखभावेनावस्थितयोरध्वग्निीधयो)तुः सहान्वारम्भणं हौत्रोक्तं विरुध्येत । दक्षिणा- मुखा भूत्वा स्फ्यमूर्धा संनहातॄणेन च श्लेपयित्वोपसंगृह्येति उपसंगृह्णनवति- पतेऽध्वयुदक्षिणामुखः । प्रवरणाझंजपमाह-

क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवः सुवरित्यध्वर्युर्जपति ।

सष्टम् ।

तान्याग्नीध्रोऽन्वारभ्प पश्चादवतिष्ठते ।

तानीति स्क्येध्यसनहनवेदितृणानि । नपुंसकमनपुंसकनेति नपुंसकत्वम् । पश्चाद- ध्वर्योः । ' पश्चादवस्थायाऽऽग्नीघ्रः' इति वैखानसः ।

क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यतीति मन्त्रꣳ संनमति ।

नायमूहो मन्त्रेऽपि तु लाघवेन समानो मन्त्रोऽसीत्पदवानध्वर्युपदस्थाने पठित इति दर्शितम् । उभयोः प्रवरणाङ्गे सहैव जपे सत्याह-

ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीत्यामन्त्रयते ।

ब्रह्माणमित्यर्थात् । प्रवरं यजमानस्य वक्तुमथवा प्रवरणं प्रवेरक्रिया तस्यै तां प्रवरणक्रियां कर्तुमाश्रावयिष्यामि आनीप्रम मोदयितुं प्रेरयिष्यामीति तदर्थश्रावणेनेति यावत् । ब्रह्मणा चौ(चो)माश्रावयेति प्रसूते सत्याह-

आश्रावयोश्रावयेति वाऽऽश्रावयति ।

ओश्रावयेति पदच्छेदः पररूपमोकारस्य । द्वयोरन्यतरेणैवानुमोदयितुं प्रेरयति, आग्नीधमित्यर्थात् । नौऽऽत्मसंस्कारमात्रं तदेवाऽऽह-

अस्तु श्रौषडित्याग्नीध्रः प्रत्याश्रावयति ।

प्रतिमोदन श्रावयतीत्यर्थः । कथं, श्रौषडनुमतिरस्त्विति । अत्र पाणिनिस्मृत्या

१ख, "यित्वाऽनोप। २ क. ग. च. छ.ठ. चरणकि । ३ क ग, च, छ,८,ठ. 'मोदिन । ४ घ. इ. ज. श. म. द. वयोमाश्रावय । ५ व. 'ति । त्रयाणामन्यतमेनानु । ६ क.च.ठ. नात्र सं"।