पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] महादेवकृतवैजयन्तीच्याख्यासमेतम् ।

पाहि माऽग्न इत्यसꣳस्पर्शयन्स्रुचावत्याक्रामति ।

जुहूपभूतोः परस्परमसंसर्ग संपादयन्नुत्तरतोऽतिकामति । सुचरिते मोति मन्त्रान्तः।

समक्तमग्निना घृतꣳ समक्तꣳ हविषा हविः । समन्तरिक्षमर्चिषेति जुह्वा ध्रुवां त्रिः समनक्ति ।

जुगतान्येन तयैव ध्रुवां समनक्ति सकृन्मन्त्रेण द्विस्तूष्णीम् । अत्र कर्मत्वेन धुवा- यास्तदाज्यस्य संस्कृतिः।

मखस्य शिरोऽसीति वा ।

विकरूपः पूर्वमन्त्रेण । ज्योतिरामित्यन्तः ।

उन्नीतꣳ राय इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहूं प्रत्यभिघारयति ।

नुषगसेनाऽऽज्येन जुहूसंस्कारः।

यज्ञेन यज्ञः संतत इति जुह्वा ध्रुवाम् ।

प्रत्यमिधारयतीति पूर्वानुवृत्तिः । ध्रुवासंस्कारः । समञ्जनं विन्दुमात्रप्रक्षेपेण, प्रत्यभिधारण तु किंचिद्धाराकरणेनेति भेदेनोपादानं धात्वोः ।

सादयित्वा स्रुचौ ।

पथास्थानम् ।

प्रवरं प्रवृणीते ।

प्रतिज्ञामात्रमधिकारार्थम् । भवरो नामर्षिनाम्ना वंशनिष्ठं सामान्य तस्कीर्तनं प्रवरणम् सदितिकर्तव्यता तापदाह-

इध्मसंनहनानि स्फ्य उपसंगृह्य वेदेश्च तृणमव्यन्तमध्वर्युः प्रवरायावतिष्ठते ।। २ ।।

इध्मसंनहनानि शुल्वमुद्र्थ्य कृतानि तृणानि तानि स्फ्ये श्लेषयिस्वा वेदेस्तृणं च श्लेषयित्वा । तत्कीदृशम् -अन्यन्तं वेदेरन्तो मध्यस्तस्मादपगतं विश्लिष्ट तादृशं न भवति तदव्यन्तं सस्य बहिष एकं तृणं मूछदेशेन वेद्या लग्नमेव साये श्लेपयित्वेति यावत् । अध्वर्युग्रहणं विशिष्टाचारम्भकर्तृत्वार्थम् । अध्वर्युरेव नाऽऽग्नीध उपसंगृह्णा- सीत्यर्थः । अथ वा होतुरप्यग्रे वक्ष्यते सत्र नैते धर्मा इति । प्रवराय प्रवरं वक्तुमव- तिष्ठतेऽवस्थितो भवेन्नाऽऽस्त इत्यर्थः । वेदिसमीपेऽथवोत्तरत उत्कर इति भारद्वानबौधा. यनौ । तेनोत्करस्योत्तरदेश वेदेवा स्थितौ दक्षिणामुखावित्यपि गम्यते । प्राङ्मुखप्रत्य- १क. ग. च. छ. ४.३, मैं तु वि'१२ क. प. प. छ. ट. ८. प्रवरं । ३ स.तेऽनते।