पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने- नाऽऽधारयेत्पूर्वार्धे मध्ये पश्चा) वा जुहुयात् ' इति । तथा यजमानेनान्वारम्भोऽपि धर्मः प्रत्याख्यातः । ननु कथं ब्राह्मणे दृष्ट्वा सूत्रान्तरे व्याख्यातः प्रत्याख्यात इति चेत् । उच्यते-आधारमाधार्यमाणमनु समारभ्येतस्मिन्काले देवाः सुवगै लोकमायन्सा- क्षादेव यजमानः सुवगै लोकमेतीति ब्राह्मणे मन्त्रगतस्य समारम्येत्यस्य पदस्यायं व्याख्ययाऽर्थवादो न तु यजमानेनान्वारम्मः कार्य इत्यर्थों भवति । तस्मादत्राऽऽचार्य- स्यान्वारम्मविधिर्नेष्ट इति भाष्यकारेण प्रपश्चितम् ।

तिर्यञ्चं वा ।

एतदपि पूर्ववद्याख्येय, दक्षिणमारभ्योत्तरपर्यन्तं कुर्यादित्यर्थः ।

सर्वाणीध्मकाष्ठानि सꣳस्पर्शयति ।

गतार्थम् ।

हुत्वाऽनुप्राणिति ।

अत्र हुत्वेत्यनुवादेऽपि नायं दर्विहोमः संस्कारकर्मत्वात्प्रधानकर्म हि दहिोम इति स्थापयिष्यते, तथाऽपि स्वाहाकारेण दानरूपताऽप्यस्ति, तेनादृष्टार्थत्वेन होमोऽयं भवन्संस्कारोऽपीत्यर्थः । यज्जुह्वां प्रयाजेभ्यस्तदिति प्रयाजार्थत्वेनावगतस्य चाऽऽवारकरणेऽपादानभूतस्य संस्कारः प्रयानार्थ इति न्यायः । प्रथमाधारः प्रधान- कमैव ज्ञेयम् । तस्माद्यत्र प्रयाना न सन्ति नास्ति तत्र द्वितीयाघार इति सिद्धम् । अनुप्राणिति होमावसरे श्वासमनुरुध्य हुत्वा मुञ्चेदित्यर्थः ।

ऊर्ध्वमाघारयेत्स्वर्गकामस्य न्यञ्च वृष्टिकामस्य ।

कामविशिष्टस्य यजमानस्योर्ध्वमाघारयेत्प्रारम्भे स्रुचं जुहूं निम्नत्वेन धृत्वा समाप्ति- पर्यन्तमुच्चोच्चतरत्वेनेति स्वर्गकामस्यो त्वमुक्तम् । वृष्टिकामस्य न्यश्चमादावूर्व समाप्ता- अधस्तान्नयनेन द्रष्टव्यम् । अविशेषादुमयत्राऽऽघारयोः ।

द्वेष्यस्य न्यञ्चं विच्छिनत्ति वा ।

निन्दार्थवादोऽयं प्रतिषेधार्थों विना कामं कदाचिदपि न्यश्च नाऽऽघारयेद्विच्छेद सर्वदा न कुर्यादित्यर्थः ।

यं कामयेत प्रमायुकः स्यादिति जिह्मं तस्याऽऽघारयेत् ।

अयमपि निन्दार्थवादः पूर्ववत्प्रतिषेधार्थः ।

बृहद्भा इति स्रुचमुद्गृह्णाति ।

जुहूमुहह्नाति धारासमाप्त्यनन्तरमुच्चां नयति । १च. "या या जमानेऽन्वा" । २ क. ग. च. छ. ट. ठ. ३ क. स्व. ग. . ब. - ज. झ. अ. द. 3. द. 'ति हुत्वा ।