पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्र तृतीयं पक्षमाह-

प्रतिसामिधेनीर्वा ।

द्वादश्यां पञ्चदश्यां वा न सर्वमिध्यमादधाति किं तु तथा प्रणवचतुष्टयेऽप्येकै. कामेवाऽऽदधातीति वक्तुमुक्तं सामिनीं सामिधेमी प्रति पूर्ववदेवोक्तं प्रणवे प्रणव इत्यभिप्रायेण काछवृद्धिं वक्ष्यति तत्राप्यवमेव प्रकारः । अग्नये समिध्यमानायेति संस्कारोऽतो न च समिन्धनं देवतार्थं तेन नोहेशत्यागौ देवतासंप्रदानाप्रतीतश्च खाहा- कारवषट्कारयोरभावात् । समिद्धो अमिराहुत इति देवा इति च याजमानम् ।

वेदेनाऽऽहवनीयं त्रिरुपवाजयति ।

उपवाजयति संधूनोति । धर्ममात्रमेतन्नन्वनेः प्रज्वालनं त्रिवूननेन भवति । तस्मादवभृथेऽपि भवति । एतदोढासु देवतासु कार्य विकृतावनुवदिष्यत्योढासु देवता- स्विति । ततो ज्ञायतेऽत्र काळे प्रकृतावपि प्राप्तमिति । अवभृथे चोदकेऽपि वक्ष्यत्यतो ज्ञायते धर्ममात्रमदृष्टार्थमिति ।

स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्योत्तरं परिधिसंधिमन्ववहृत्य स्रुवं प्रजापतये मनवे स्वाहेति मनसा ध्वायन्दक्षिणाप्राञ्चमृजुं दीर्घꣳ संततं ज्योतिष्मत्याघारयति तिर्यञ्चं वा सर्वाणीध्मकाष्ठानि सꣳस्पर्शयति ।

आसीन इत्यनुवर्तनीयम् । आतीनोऽन्यमावारमिति श्रुतेः। आहवनीये जुह्वेति परि. भाषितत्वात्तदर्थ सुवेणेत्युक्तम् । धुवाया इति । सुवेण होम आज्यस्थाल्या इति परि- भाषया प्राप्तौ तु धुवाया इत्यक्तम् । आदाय गृहीत्वा वेदेनोपयम्योपभृत्स्थानीयेन । उत्तरं वायव्यकोणस्थं परियोः संधिदेशेनाऽऽयतने प्रवेश्य युवमेव न वेदं ततो मनप्ता भन्त्रमुच्चारयस्तदर्थं ध्यायन्नाधारयति धारामायतने मुञ्चति । कथं, दक्षिणाप्राञ्चं दक्षिणाप्राच्योरन्तरालमाग्नेयी प्रति समाप्तमृनुमकुटिलं दीपं न केवळ समित्प्रदेशेऽनन्त- रमपि धारां मुञ्चदित्यर्थः । संततमविच्छिन्नं ज्योतिष्मति ज्वालायुक्तेऽसौ । तिर्यञ्चं वा । किंचिदायतने प्रवेश्योत्तरदिगारम्य तिर्यगायतने दक्षिणां दिशं प्रत्यश्चति समाप्नोति तादृशमाघारमिति नामधेयं पुंलिङ्गं विशेष्यमनुसंधेयं, वेणाऽऽधारमाधारयतीति ब्राह्मणे दर्शनात् । सर्वाणि काष्ठानि संस्पर्शयत्याधारमिति शेषः । क. ग. च. छ. ट, ठ, धनी वा । या । २ ख. भाषिताज्यस्थालीनिवृत्त्वर्थम् ।