पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७७ भ्यञ्जनमुपरिष्टास्नुषेण कृत्या पश्चात्य्वेण हस्त आज्यमानीयेति पैखानप्सवचमाद्धस्त आज्यं गृहीत्वाऽधस्ताद्भाग उपलिम्पति । अनक्तीत्युच्यमान आज्यपतनमात्रं स्यात्तन्न संभवत्यनुत्ताने पुरोडाशे, तस्मात्पुरोडाशस्याधस्तात्समीपं हस्तं नीत्वेति वक्तमुपेत्युक्त- मपर्यावर्तयनित्यर्थः । यदामेयोऽष्टाकपाल इत्यस्य संनिधौ श्रुतमुपरिष्वादभ्यज्याधस्ता- दुपानक्तीत्येतच्छाखान्तरेणोपबृंह्य तौ समानविधानावित्यनेन पुरोडाशान्तरेऽपि प्राप्त-- मिति पुरोडाशमित्युक्तमनुवर्तितं पुरोडाशब्राह्मणत्वात्सांनाय्ये न प्राप्तिरिति दर्शयि- तुम् । अतः परं पुरोडाशाद्यासादनमेवोच्यते । तत्तु न ज्ञायते पायां नीत्वा सादन- मथवा हविरेव गृहीत्वा नीत्वा सादनीयमिति, तदर्थमुक्त बौधायनवैखानसाम्यां पाच्या सर्वाणि हवीशषि संवृल्लेति, तदस्माकमप्यविरुद्धम् ।

प्रियेण नाम्ना प्रियꣳ सद आसीदतामित्यपरेण स्रुचः पुरोडाशावासादयति दक्षिणमाग्नेयमुत्तरमितरम् ।

सुचां पश्चाद्भागे बहिण्येवाऽऽसादयति । मन्त्रस्य लोटप्रथमपुरुषद्विवचनान्ते. नाऽऽसीदतामिति क्रियापदेन युक्तत्वासकृदेव मन्त्रः सहैवाऽऽसादनं हस्तद्वयेन । गृहीत्वा दक्षिणोत्तरभागयोरिति प्राप्नोति । तन्न । अनुपूर्वमेषां कर्माणीति परिभाषितत्वात् । किंच लाघवेन दक्षिणोत्तरौ पुरोडाशावासादयतीति वक्तव्ये गुरूपदेशेन दक्षिण- माग्नेयमासाद्य पश्चादितरमुत्तरमासादयतीति द्रव्यपृथक्त्वेऽम्यावर्तत इत्यावृत्तिर्म- न्त्रस्य दर्शिता देशभेदस्फुटीकरणेन । द्विवचनं तु परस्परापेक्षमुपधानमन्त्रवत् । सथैकस्मिन्पुरोडाशे न मन्त्रस्तूष्णीमेवाऽऽसादनं न प्रकृताव्हो विकृतावपि केवलैक- पुरोडाशायां न मन्त्रो नाप्यूहश्च । दक्षिणमुत्तरं चेत्येतावता सिद्धेऽप्याग्ने यमितरमिति च गुरुनिर्देशो देवतोपलक्षणेन यत्राऽऽमेयविकारा अनेके तत्रापीतरस्यानोपोम य- विकारस्यैन्द्रामस्य चाभावान्न मन्त्रः । तथा च नाप्नीषोमीयाणामैन्द्रानानां वा केवलानां नानादैवतपुरोडाशसंयुक्तत्वाभावेऽपि मन्त्र इति सूत्रकृतोऽभिमतं, ततस्तु नाना- दैवतविकारपुरोडाशासु विकृतिषु बहुवचनेनोहा भवति सीदन्विति । उत्तरविकारे वेकस्मिन्द्वयोर्वा यथार्थमूहः । यदपि पाच्या सहाऽऽसादनं कुर्वन्ति तत्तु विधानाभावा- न्यायविरोधालिङ्गविरोधाचोपेक्ष्यम् । तथा हि पुरोडाशावासादयतीति साक्षादा- सादनकर्मता पुरोडाशयोरेव श्रूयते तत्र लक्षणाश्रयणे प्रमाणामावाद्दक्षिणोत्तर- विधानं तु पूर्वापरभावश्च पाया॑ पूर्व निहितयोस्तया सहाऽऽसादनं कथं स्यात्, स्तीर्णाया वेदेरेव हविराधारत्वस्य न्यायसमयसिद्धत्वात् । न च पात्री प्रत्याधारत्वे हविराधारत्वं संभवति । सानाय्यादौनामगत्या व्यवधानेऽपि ये ननाव्यवधानं तेन व्यवहितेऽपि भवतीति न दोषः । देवसदनमारम इति तथोर्णामृदुप्रथमान५ स्योन १ ख. दर्शितम् । १ ख. ग. छ, ट. उ. मानामी । ३ क. ग. च.ट. ड. "ति दो। 3