पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- दर्शितम् । तथाचाभिधारणमुद्रासनं च प्रतिकपालं काण्डानुसमयेन । अत्र केचियाख्या- तारो वदन्ति-एक द्वे त्रीणीति संख्या न प्रत्येककपालनिष्ठेति प्रथम द्वितीयं तृतीय- मित्यादिप्रकारेण संख्योचारणमिति । तन्न ! प्रभमापेक्षया द्वितीये द्वित्वेऽपि यथैक- मिपे विष्णुस्त्वाऽन्वेत्वित्यादिमिद्वितीयादिष्वपि प्राधान्यमेवमत्रापि ।

देवस्त्वा सविता मध्वाऽनक्त्विति पुरोडाशमनक्ति ।

पुरोडाशग्रहणं सानाय्यनिवृत्त्यर्थमेकवचनं मन्त्रावृत्यर्थम् । अनक्ति स्निग्धी करोति । तथा चेदमञ्जनमलंकारशब्देनानुवदिष्यति । कथमनतात्यत्रैव विशिनष्टि-

स्वक्तमकूर्मपृषन्तमपरिवर्गमणिकाषमुपरि ष्टादभ्यज्य स्रुवेण हस्तेनाधस्तादुपानक्ति ।

पुरोडाशमित्यनुकृष्यते । स्त्रवेणेति सामर्थ्यसिद्धेऽपि हस्तेनेत्यस्योपरिष्टादम्य- ज्येत्यनेन संबन्धनिराकरणार्थ पुनरुक्तं सुवेणेत्यर्थः । उपरिष्टादिति अधस्ताछग्नं सलमागमात्रं विना सर्वमभ्यज्य स्त्रवदाज्येन सुवेण ब्रटं कृत्वा स्वक्तं सुष्ठ बहुघृतेना- क्तम् । अभ्यज्येत्येतत्प्रत्येकं संवध्यते । तत्र प्रकृत्यर्थोऽनुवादोऽणिकापमित्यन्तैरभ्य- जनस्य सिद्धत्वात्प्रकृत्यनुग्रहार्थ पाकं पचतीतिवत् । तेन कृत्वेत्यमुमर्थमाहाम्यज्येति पदं स्वक्तं कृत्वेत्ययमर्थः संपन्नोऽप्राप्तत्वाद्विधिरनमेयः । एवमनुक्ते स्वक्तादिपदानि प्राप्तानुवादीन्येव स्युः । न च पूर्वमनक्तीस्येतावनेतत्सर्व प्राप्नोति । ततस्तु प्राप्तत्वा. स्वक्ता विक्रिया भावनालक्षणेन प्रयत्नेन यथा संबध्येत तथा कृते विधिमात्रानुमान पवाद्भविष्यति । न चाम्यज्येत्येतहगवन्तं धात्वन्तरावरुद्धं स्वक्तादिपः क्रियोप. सर्जनद्रव्यवचनैरन्वेतुमर्हति । तस्मादम्यज्येति धातुः पूर्वानुवादीति सिद्धम् । अथवा स्वक्तमिति क्रियाविशेषणं सदनक्तीत्यनेन संबन्धनीयं, तेन सम्यगञ्जनं घृतधारया कृत्वा पश्चा म्रक्षण स्रवेण घर्षण तत्राकूर्मपृषन्तमित्यादि । पुनः पुरोडाशं कथं भूतं कृत्वत्यपेक्षायामपृषन्तमित्यादि पदत्रयं संबध्यते, न विद्यन्ते कूर्मस्येव पृषन्तो बिन्दवो यस्मिन्यथा कूर्मे विन्दवः सन्ति तथा स्त्रवेण स्वञ्ज ने क्रियमाणे प्रदेशे धृत. चिन्दवो यथा न भवन्ति तादृशमक्तं कृत्वाऽपरिवर्ग परिवर्गस्त्यागः प्रदेशे प्रदेशे तथा न समस्तमित्यर्थः । अथवाऽपरित्य जन्न परित्यजन्मित्यर्थः । मध्ये सुवस्य पुरोडा- शस्यं वियोगो न कार्यों यावदभ्यञ्जनक्षमाप्ति । तथाऽणिकाएं न विद्यते निकायो निकर्षणं घर्षणं स्रवेण यत्र, णमुलन्तेऽपि स एवार्यों नेणत्वं छान्दसम् । एवं प्रकारमा ।