पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- व्यस्याऽऽहुतयः । अत्र दर्शपूर्णमासप्रकरणे तु तदर्थ धौवमाज्यं नियम्यतेऽर्थशब्देन चोपस्तरणादिकमपि ध्रुवाया नियम्यते । कात्यायनादयस्तूपस्तरणाभिधारणे आज्यस्याल्य एवेति वक्ष्यति(दन्ति) तन्नेष्टमाचार्यस्येत्युक्तम् । कुतः, यत उपस्तरणाभिधारणे जह्वाऽऽहवनीय एव प्रयोजनभाव भनेते अवदानाहुतेः पूर्व पश्चाचेति वक्ष्यति । प्रथमाधारे तु यद्यप्यनेन न प्राप्तिस्तथाऽपि वचनेन भविष्यति । एवमन्यदपि ज्ञेयम् । नैमित्तिकप्रायश्चित्तं तु गार्हपत्यदक्षिणान्योर्जुलैव समारूपया येषां खुवेणेति वचनं तेषामेव तथेति ज्ञेयम् । अत्र बौधायनः-प्रत्यादत्ते दक्षिणेनाऽऽज्यस्थाली सतुवां सव्येन पात्री वेदमिति ।

इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन दक्षिणस्मात्पुरोडाशादङ्गारानपोह्योत्तरस्मादपोहति।

ल्यपा कम उक्तः सानाव्यनिवृत्त्ययस्तनाभिमन्त्रणोपस्तरणयोरपि ।

सूर्य ज्योतिर्विभाहि महत इन्द्रियायेत्यभिमन्त्रयते स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामीति पात्र्यामुपस्तीर्याऽऽप्यायतां घृतयोनिरग्निर्हव्याऽनुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाऽग्नये जुष्टमभिधारयामीत्याग्नेयमभिधारयति तूष्णीमुत्तरम् ।

पाच्यामिति सप्तम्याऽधिकरणत्वमात्रमुक्तं न संस्कार्यत्वं, तेन स्योनं त इत्येक वचनेनैकस्यैव पुरोडाशस्यार्थ उपस्तरणमुपस्तीर्येति ल्यपा प्रतिपुरोडाशम् । अग्नये जुष्टमिति लिङ्गादानेयमित्युक्तम् । प्रकृतावूहामावादभिधारणस्य सर्वहविरर्थत्वेन श्रूयमाणत्वाच्च तूष्णीमुत्तरमिति निर्देशात्पुरोडाशमेव । अत्र मन्त्रेण दक्षिणं तूष्णीमुत्त- रमिति वक्तव्येऽपि लिङ्गप्रदर्शनार्थमाग्नेयमित्युक्तम् । अनेन दक्षिणोत्तरदेशभेदः स्मारितः। द्वितीय सानाय्यं चेत्तत्राऽऽह-

यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति शृतम्।

प्रानोहम् । सानाय्यधर्मेषक्तत्वात्प्राप्तिमन्त्रस्य । अभिधारयतीत्यनुवर्तते ।

आर्द्रः प्रथस्नुर्भुवनस्य गोपाः शृत उत्स्नाति जनिता मतीनामिति पुरोडाशमुद्वासयत्यभिन्दन्नपर्यावर्तयन् ।

मध्ये शृतमिति व्यवधानेऽनुवृत्त्यसमवात्पुरोडाशमित्युक्तम् । कपालयोगादुत्कृष्या- न्यत्र स्थापयति कस्मिंश्चित्पात्रे, दक्षिणेन हस्तेन भस्मपरिमार्जनं पुरोडाशस्य क्रियते