पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७३

उपभृदसीत्युत्तरामुपभृतमधस्ताद्विधृत्योः प्रतिकृष्टतराम् ।

पूर्ववदनुषङ्गः । प्रतीचीनं कृष्टं जुहूमूलान्मूलमतिशयेन यस्याः सा तादृशी साद. यति । स्पष्टमन्यत् ।

ध्रुवाऽसीत्युतरां ध्रुवामुपरिष्टाद्विधृत्योः प्रतिकृष्टतरामसꣳस्पृष्टाꣳ सादयति ।

उपभृता संसर्गरहितम् । सष्टम् ।

ऋषभोऽसि शाक्वरो वषट्कारस्य त्वा मात्रायाꣳ सादयामीति दक्षिणेन जुहूꣳ स्रुवꣳ सादयति ध्रुवां वोत्तरेणर्षभोऽसि शाक्वरो घृताचीनाꣳ सूनुः. प्रियेण नाम्ना प्रिपे सदसि सीदेति वा ।। २६ ।।

गतार्थम् । यथावकाशं स्थालीमपि सादयति ।

एता असदन्नित्यभिमन्त्रयते ।

सुचां प्रकृतत्वान्मत्रे स्त्रीलिङ्गत्वाच्च उचामभिमन्त्रणं सुववर्जानां कर्मकरणो मन्त्रः नुवर्षे च इत्यापस्तम्बेन स्पष्टमुक्तम् ।

विष्णूनि स्थ वैष्णवानि धामानि प्राजापत्यानीत्याज्यानि ।

अभिमन्त्रयत इति पूर्वस्मात् । उत्तरविध्यर्थं परिभाषामारचयति-

स्रुवेण गार्हपत्यदक्षिणाग्न्योराज्यार्थानाज्यस्याल्पाः करोति जुह्वा ध्रुवाया आहवनीये ।

करोतीति शेषः । गार्हपत्यदक्षिणाग्न्योः संबन्धेन यान्याज्येन प्रयोजनामि त आज्या. स्तानाज्यस्थाल्या एवाऽऽज्येन तथा खुवेण य आज्यास्तैिरपि चाऽऽज्यस्थालीगते. नैव करोतीति नियम्यते । आहवनीये जुह्वेति परिभाषितस्य विशिष्टस्यानुवादः । य आज्यार्थीस्तान्धुवाया एव सकाशाद्धौवमिति नियम्यते । अयमाशयः-सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्यमिति वाक्यशेषादुत्सर्गे सति नान्तर्वेदिगृहीतस्य प्रतीचीनं हरतोति श्रुतिरापस्तम्बेन दर्शिता । ततस्तु दक्षिणाग्निगार्हपत्ययोधौवस्य नेतुमशक्यत्वात्स्थामा इत्युक्तमिति खूणेति मिन्नो नियमः । तेन द्वयोरन्यो)मा जुह्ना क्रियमाणा अपि स्थाल्या एव खुत्रेण हविष्प्रत्यभिधारणप्रस्तरवाह समञ्जनप्राशि- यजमानभागेडापर्वाञ्जनाज्येडापार्वणहोमसंबन्ध्याज्यमाज्यस्थाल्या एव । तत्र जुह्वाऽऽ. हवनीय आहुतयो हूयन्त इति परिभाषात एव सिद्ध, तत्सर्वार्धमुक्तं तन्त्रेण कचि. 1 १५. ङ. ज. स.न.ट. स्पृधाःसा।