पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ सत्याषाविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- मम्यग्रं मध्यमेन परिधिना संस्पर्शमात्र कार्य नोत्तराधरभावनियमः । उत्तराध(ध्य)स्य तु परिधरवाग्रत्वमेव मतं, न्यूनत्वेन स्थितमाहवनीयायतनादन यस्य सोऽवाग्रस्तं तथा परिदधाति मूलं मध्यमपरिधिसंस्पृष्टं पश्चादेवाधिकमायतनात्कृत्वाऽयं तु यथाऽऽयतना. दवमं भवेत्तथा विधेयं स्पष्ट मन्यत् । भूवोऽसीत्यादि याजमानम् ।

सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमृश्य ।

अभिशस्त्या इति मन्त्रान्तः । अयं परिधिमहचरितो विधिर्वाक्यशेषाच्च परिध्यभा. वासु विकृतिषु नास्ति बौधायनेनोक्तं सूर्यन पुरस्तात्परिदधातीति ।

ऊर्ध्वे आधारसमिधावादधाति वीतिहोत्रं त्वा कव इति दक्षिणां तूष्णीमुत्तराꣳ समिदस्यायुषे त्वेति वा ।

अध्वर इत्यन्तः । उत्तरस्यामायुषे त्वेति तूष्णीमिति विकल्पः । तथैवाऽऽप. स्तम्बेऽपि ऊर्षे ऊर्वाग्रे आयतन एवाऽऽधारसमिधावाधारयोराधारभूते समिधौ यथाऽऽधारयोः क्रियमाणयोस्तयोः संपर्यो भवेदक्षिणोत्तरमावस्तु तयोरेव परस्परा. पेक्षया । अत्राऽऽधारयोर्विकल्पेन नानाप्रकारता तदनुसारेण यत्र कुत्रापि दक्षिणोत्तर- भावन स्थाप्यते समिधौ।

समावनन्तर्गर्भौ दर्भौ बर्हिषो विधृती करोति ।

बर्हिष इति पञ्चमी बहिषः सकाशाद्विधतिनामके(को) दर्भो करोति समी पूर्वमेव न च्छेदनेन, न विद्यतेऽन्तर्गों, गर्भभूता सूचियोस्तौ । मध्यमादृषि इति बौधायनों जैमिनिन्यायश्च ।

विशो यन्त्रे स्य इति मध्ये वेदेर्बर्हिष्युदीचीनाग्रे निदधाति ।

मध्ये वेदेरित्युक्ते साक्षाद्वेदिसंबन्ध इतिप्रतीतिनिवारणार्थ बर्हिषीत्युक्तम् । स्पष्ट- मन्यत् । विच्छिनीति याजमानम् ।

वसूनाꣳ रुद्राणामिति तयोः प्रस्तरꣳ सादयति ।

सदसि सीदेति मन्त्रान्तः । तयोचिधृत्योरयं प्रस्तर इत्यादि याजमानं सुवान्ते. प्वपि ज्ञेयम् ।

जुहूरसीति प्रस्तरे जुहूꣳ समं मूलैर्दण्डम् ।

अतीत्यनुषको ध्रुवाऽसत्यिस्माद्दर्शितो ब्राह्मणे, तथैव सूत्रेऽपि दर्शितः । प्रिये सदसि सोदेति मन्त्रान्तः । प्रस्तरस्य मूलैः समो यथा जुहा दण्डो भवति तथा मादयतीत्यर्थः। + सूत्र पुस्तकेषु ' अभिमन्न्य ' इति पाठः । १८. सूर्यस्वा पु।