पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अ०पटलः] महादेवकृतवैजयन्तीच्याख्यासमेतम् । १.७१ स्यस्तदाऽधि कानि त्रिषु पञ्चसु वा मेलयित्वा त्रिधातु पञ्चधातु वा करोति । तत्रैकै. कमेव धातुं बहिः स्तुणाति । वेदेः प्रत्यग्भागमारभ्य प्राग्भागपर्यन्तं विपरीतं वोभयत्रापि पुरोऽवस्थितानि मूलानि पश्चादवस्थितरर्धातूनामाच्छादयन्स्तृणातीत्यन्वयः । नाति- दृश्नमनातिहनं दृष्टं यथा भवति तथा स्तृणाति । तदेव पुनर्विशेषितं बहुलमितिनिधि डतरं स्तृणाति सर्वथा यथा वेदिर्ने दृश्यते । प्रागपवर्गमित्यनेनोदगपवर्गमात्रं व्यावर्तित प्रत्यगपवर्गता तु पूर्वमप्राप्ता विकल्पेन विधीयते ।

धातौ धातौ मन्त्रमावतर्यति ।

बर्हिषा वेदि स्तृणातीत्यधिकाराद्वेवरेकत्वादनावृत्तौ प्राप्तायाभिदमाह । तत्र वहिपः स्तीर्यमाणत्वेऽपि न तस्यैव सूत्रेण संस्कार इत्युक्तम् । तथा बर्हिषः संसृष्टव्य- स्यैकत्वेन द्रव्यपृथक्त्वेनाप्राप्तावपि निधनोपाधिना द्रव्यपृथक्त्वं मा भूपि तहि धातूपाधिनैवेति नियमार्थमुक्तं धातूपाधिना स्तीर्यमाणत्वादिति भावः । तथाचोर्णाम्र- दसमिति मन्त्रेण बहिरेव विस्तीर्ण करोति बाहः स्तृणातीति श्रुतेः । एवं चाहिषा स्तीर्यमाणेनापि वेदिराच्छादिता भवति तत्र न मन्त्रः । तदेवोक्तं बर्हिषा वेदि स्तृणा- तीति श्रुत्यन्तरेण । स्तृणात्योरर्थद्वयं याजमाने विस्पष्टयिष्यते । ऊर्णामृद्वित्यादिमन्त्रर्लिङ्ग- विनियुक्तैरनुमन्त्रयते बहिः स्तीर्यमाणं वेदिस्तीर्यमाणां स्तीर्णामिति निदेशेन । न ह्यसति तयोरर्थभेदे बर्हिः स्तीर्यमाणमिति संभवति तेन बहिस्तृष्णातीत्ययं वितननाथ इति दर्शयति । तथा वेदि स्तीर्यमाणां, स्तीर्णामिति तु बहिषा स्तृणातीत्ययमाच्छादयती- त्येवमर्थ इति दर्शयतीति निश्चिनुमः । ऊर्णामृद्वित्यादि याजमानम् ।

अनुयाजार्थे उल्मुके उदू(दु)ह्याऽऽहवनीयं कल्पयित्वा प्रत्यादाय प्रस्तरं परिधीन्परिदधाति ।

धारयन्प्रस्तरमिति वाक्यात् । त्वाप्रत्ययेन च परिधानाङ्गता । उल्मुके ज्वलन्ती पूर्वस्यां विश्यायतन एवान्यानार्थमिति संकल्प्य पृथक्कुर्यादित्यर्थः । प्राची उल्मुके इति वाजसनेयकविधानात् ।। काष्ठेराहवनीयं कल्पयित्वा समृद्धं कृत्वा यजमानहस्तात्प्रस्तरं प्रत्यादाय तं धारयन्नेव परिदधातीति यदुक्तं तदाह-

गन्धर्वोऽसीत्यपरेणाऽऽहवनीयं बर्हिष्युदगग्रं मध्यममि- न्द्रस्य बाहुरसीति दक्षिणार्ध्यꣳ सꣳस्पृष्टं मध्यमेनाभ्यग्रं मित्रावरुणौ त्वेत्युत्तरार्ध्यꣳ सꣳस्पृष्टं मध्यमेनाग्रम् ।

ईडित इति सर्वत्र मत्रान्तः । आहवनीयायतनसमोपे पश्चात्स्तीर्ण एव बहिषि परि. दधातीति पूर्वानुवृत्तिः । अम्यग्रमाहवनीयायतनादधिकाग्रमपि आहवनीयममि अभिमुख- १४. उ. 'न पृ । २ . छ. भूदिति त । ३ ख. 'तेर।