पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ १६६ सत्यापाढविरचितं श्रौतसूत्र-. [१प्रथमप्रश्ने- ज्यानि विशानि वा । षोडशानीति स्वयं वदति स्वनामणानुसारेण । दशगृहीतमुप- भृति पञ्चगृहीतमितरयोरित्येके समामनन्तीत्यापस्तम्बः ।

भूयो जुह्वामल्पिष्ठमुपभृति भूयिष्टं ध्रुवायाम् ।

गृह्णातीत्यनुवर्तते । भूयो भूयिधमिति समानार्थमतिशयेन बहित्यर्थः । अतिशयेना- रूपमल्पिष्ठम् । अस्पिष्ठमुपभृतीत्येतावताऽन्ययार्बहु सिध्यत्येवेतरयोर्वा भूयिष्ठमित्यपीष्ट- सिद्धौ गुरुनिर्देशस्तारतम्यस्यात्यन्तातिशयार्थम् ।

उपबिलꣳ स्थाल्या जुहूं धारयमाणो मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाꣳ षोडशान्याज्यानि गृह्णाति ।

आज्यस्थाल्या विलेन सममुपबिलं जुहूं धारयमाणो गृहति । जुहामिति विपरि- णामेन पूरणीयम् । स्थास्या मध्यदेशे धारयमाणं इति संबन्ध उपभृतमिति विपारे- णामः । भूम। प्रतिष्ठितायामत्र न विपरिणामापेक्षा । काम्यौ पक्षौ वक्तु मुक्तं षोडशा- नीति, नो चेद्विशपक्षेऽपि हासेन काम्थसप्तदशत्वस्य तम्मा भूदिति षोडशपक्षे काम्पैः कविंशत्वं विंशपक्षेऽपि नित्याबाधेकशित्वस्य काम्यस्य संमयोऽर्थादुक्तः ।

सप्तदशानि पशुकामः कुर्वीतैकविꣳशानि प्रतिष्ठाकामः ।

आग्यग्रहणकाळे पशुकामः सप्तदशान्याज्यानि करिष्ये तथा प्रतिष्ठाकाम एक. पिंशानि करिष्य इति कुतिति धातुप्रत्ययानुसारेण संकल्पे यजमानेन कृतेऽध्वर्यु- गुह्णाति । एवं परिभाष्य प्रयोगक्रममाह-

शुक्रं त्वा शुक्रायामित्येतैर्जुह्वां गृह्णाति पञ्चानां त्वा वातानामिति चोत्तरैरुपभृति ध्रुवायां च ।

शुक्रं त्वेति त्रिषु मध्यमे धाम्ने धान्न इत्यनुषङ्गः, संहितायामाचर्यवपठितात्रयः, यानमाने त्रयोदश, तेषां लिङ्गेनाऽऽध्वर्यवे विनियोगः समानः । यानमाने प्रथम- स्याऽऽवृत्तिः । याजमाने षोडशपले मन्त्रविभागोऽयम् । द्रव्यपृथक्त्वेऽभ्यावर्तत इत्य- त्राऽऽज्यान्युदाहृतानि, सर्वाणि ग्रहणानि समन्त्राण्येवेति स्थिते जुह्वां ग्रहणे शुक्र त्वेति मन्त्र इतिकरणेनाऽऽदिदिष्टः सर्वोऽपि यदैक एव तदा तस्य त्रिरावृत्तिः प्रसज्येत । तदर्थमुक्तमैतरिति बद्भुत्वम् । ननु तथाऽप्येकशेषादेकत्वमेवेति चेन्न । एतैरिति व्यर्थ स्यात् । आचार्यः पुनरेकमन्त्राणि कर्माणोति परिभाष्य कथं ब्रूयादेतैरिति बहुवचनं, यत्र मन्त्रसमुदायो मन्त्रो विवक्षितस्तत्र मन्त्रैकत्वमेव साधितं तदधिकप्रयत्नाद्बहुवचन- विरोधाच नानामन्त्रता । अत एव पूर्वमुपयत्र हेत्वभाव एकमन्त्रतैव व्याख्याता । कचित्तस्यैवाभ्यासोऽपि । तत्र तत्र यथाकथंचिद्भाष्यमप्यनुगुणीकृतं क्वचित्परिहृत

  • इदं सूत्र व्याख्यापुस्तकेषु न विद्यते ।