पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'- सत्यापाढविरचितं श्रौतसूत्र- .[१प्रथमपने-

आज्यमसीत्याज्यमवेक्षते ।

अध्वर्युरेव । याजमानसूत्राद्यजमानोऽपि । भक्षीयेति मन्त्रान्तः ।

उपरिष्टाद्वोत्पवनात् ।

अवेक्षत इत्यनुवर्तते । उत्पूय पश्चाद्वा । अत्र ब्राह्मणे निमीत्यावेक्षतेति साथ- वादमुक्तं, तथैवाऽऽपस्तम्बादिभिरप्युक्तम् । आचार्येण तु पत्न्यवेक्षत इति व्याख्यातं तदत्रापि भविष्यतीति नोक्तं, तत्र तु शाखान्तरीयत्वायाख्यातं, तेन यत्र यत्राऽऽज्य- मवेक्षत इति तत्रैतौ धर्मों निमील्यानुच्छपन्निति शाखान्तरीयौ ज्ञेयौ । तेन यान मानेऽपि सिद्धिः । अयमाज्यसंस्कारो द्वितीयया भान्युपयोगादर्थवादाच । अर्थबातो. (३) हि 'ईश्वरो वा एषोऽन्धो भवितोः । यदाज्यमवेक्षते ' इति निन्दित्वा 'निमी. त्यावक्षेतं । दाधाराऽऽत्मन्चक्षुः । ' इति विहिताज्यसंस्कारार्थ चक्षुषो न्यापारेण व्ययो मवेदतो न्ययप्रतिसमाधान निमीलनेनोक्तम् । न हि यत्र संस्कारस्तत्र वैगुण्यं कुर्यादत एवात्राऽऽज्यावेक्षणेन पत्नीसंस्कारे जन्ये विषयमूतमाज्यममध्यमभूद्यतोऽन्यस्य मेध्यता संपादितवत् । अतः प्रवसति यजमानेऽध्वर्युणा पुनराज्यावेक्षणं कार्यमेव ।

शुक्रमसि ज्योतिरसि तेजोऽसीत्युदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पुनाति ।

सकलमत्रपाठस्तु समुच्चयार्थों ब्राह्मणे तथैव समुच्चयपाठप्रदर्शनात्तदनुसारिपाठेन' मतान्तरमपि निरस्तम् । यदाहाऽऽपस्तम्बः-शुक्रमीति प्रथमं ज्योतिरसीति द्वितीय तेजोऽसीति तृतीयमिति, तन्नेष्टम् । समुच्चयपक्षस्तु स्पष्टं वैखानसेनोक्तः । शुक्रमसीति त्रिमिरित्युक्तं न च प्रत्येकमित्युक्तम् । अत्र हि त्रिरुत्पवनं समन्त्रमेवेष्टं त्रिर्यजुषेति. ब्राह्मणे विधानात् । ननु स्खेनानुक्ते यत्रैकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनाओं निष्पद्यते सकृदेव तत्र मन्त्रं भूयादिति प्राप्नुयादिति चेत् । न । तस्य न्यायस्यानन्तरिताम्यास- विषयत्वात् । अत्र तु पुनराहारेण विजातीयनान्तरितत्वात्पूर्वपठितमन्त्रेण अनितायाः, स्मृतेषिच्छेदात्पुनः पुनमन्त्रेण भाव्यमिति न्यायेन पूर्वन्यायाधो भविष्यति । ब्राह्मणं सु तस्यैव न्यायस्यानुवाद इति तदपि नोक्तम् । ब्राह्मणे समुच्चयस्तु 'शुक्रमसि ज्योतिरसि तेजोऽसीत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । त्रिर्यजुषा । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । त्रिः । व्यावृद्धि यज्ञः । अथो मेध्यत्वाय । ! इति । समुच्चयपाठोऽस्येति यजुषेत्येकवचने च समुच्चयं प्रतिपादयन्ति त्रियजषेत्य- नुवादोऽप्यर्थवादान्वयायार्थवादेन . चादृष्टसंस्कारत्वावमतिः प्रयोजनमन्यथाऽऽज्य- गतमलापकर्षणमात्रेण दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति प्राप्नुयात्तन्मा भूदेषा । क.ग... तवान् । । २ ग. ह. दो यद्यपि य । ३ ख. 'नेन च ।