पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ सत्याषाढविरचितं श्रौतसूत्र-- [१प्रथमप्रश्ने- अन्तरतः प्राचीमभ्याकारमप्रैः प्रागपवर्गा बिलमारभ्याग्रपर्यन्तं व्याख्यातमन्यत् प्रतीची बाह्यतो मध्यैः पात्रमेव बाह्यतस्तस्यैवान्तरत इति प्रकृतत्वात् । समार्गदर्भ मध्यभागः प्रतीचीमग्रादारभ्य पात्रदण्डसंधिपर्यन्तं मूलदण्डमिति प्राग्वत्प्रागपवर्गमेवे ।

चक्षुः श्रोत्रमित्युपभृतं प्रतीचीमग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतो मूलैर्दण्डम् ।

अनादारभ्य प्रतीची संधिमारभ्यामपर्यन्तं प्राची व्याख्यातमन्यत् ।

प्रजां योनिमिति ध्रुवां यथा स्रुवम् ।

संमार्गाग्रेविलान्तरतोऽगैरेव बहिरपि दण्डसंधिमारभ्य पृष्ठतोऽनपर्यन्तमानीय प्रणा- ल्याऽऽनीय विल एवापवर्गः । एवं दक्षिणपार्वोत्तरपार्श्वयोरपि विल एवापवर्गः, मूलैर्दण्ड पूर्ववत् । नात्र दर्भमध्यविनियोगः । एवं च बिले सर्वत्राम्यासो नियतोऽन्यत्र धर्ममात्र सकृन्मन्त्रः प्रतिपात्रमिति संक्षेपः।

न संमृष्टां चासंमृष्टां च सꣳसृजति ।

अत्र मात्रे संमृष्टासंमृष्टसंसर्गप्रतिषेधेऽपि सर्वपात्रविषयत्वेनाऽऽपस्तम्बेनोक्तेन संमृष्टान्यसंमृष्टैरिति विधानात्तथाऽस्माकमपि ज्ञेयम् । सप्सर्गे पुनर्निष्टपन समार्ग इति कल्पान्तरेषु सर्वप्रायश्चित्तं स्वसूत्रे ।

निष्टपति यथा पुरस्तात् ।

निष्टपनस्याऽऽदानपूर्वकत्वाद्वताचीरतेत्यादाय प्रत्युष्टमिति निष्टपति ।

अन्नाद्यं प्रजां पुष्टिं मा निर्मृक्षं वाजि त्वा सपत्नसाहꣳ संमार्ज्मीति प्राशित्रहरणꣳ सर्वतो बिलमभि संमार्ष्टि मूलैर्दण्डम् ।

तूष्णीके आदाननिष्टपने मन्त्रलिङ्गस्य बहुवचनस्य विरोधात् । यत्र यत्र पात्रसं. मार्गस्तत्र तत्र पूर्वपश्चिमाङ्गानीति दर्शितं मन्त्रमात्रसाध्यमभिमन्त्रणं निवर्ततेऽभिवर्ज लिङ्गविरोधात् । अप्रैरन्तरतोऽभ्याकारमिति पूर्ववदनुक्तत्वानास्त्येव । यदि तथा स्यात्तदा त्रुववदिति लाघवेन वदेत् । तस्मादप्रैः पृष्ठत आनीय बिलेऽपवर्गः, पार्श्वयो. रपि धुवावदेवान्तरतोऽभ्याकारमितिवर्नम् । मूलैर्दण्डं पूर्ववत् । अत्राऽऽपस्तम्बोक्तो विशेषो ग्राह्योऽस्मत्सूत्रेऽनभिधानात्प्रोक्ष्यानेणोत्करं दर्भेषु सादयति जघनेन वेति । बौधायनेनाप्यनेणोत्करं तृणेषु सादयित्वेत्युक्तं, खुचः प्राशित्रहरणं निष्टप्योत्तरतो वेदिश्रीण्यां निदधातीति वैखानसेनोक्तं, ततस्तु प्रोक्षणं कृताकृतं काप्यासादनं त्ववश्यमावि । १स, ते निवर्तलि।