पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ स० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । पार्श्वभागे संमार्गमेकैकमारम्प बिलावकाश एव समाप्तिः कार्येति भावः । बिलावकाश- मेव पुनः पुनरन्यत्र सकृदेव समाष्टिं । यदीष्टं सर्वत्रापि पौनापुन्यं भवेत्तदा स्नुवमभ्या- कारमिति पठेदविशेषेण वसंबन्धार्थम् । तस्मादन्तरत इत्येव संबन्धोऽभ्याकारमित्ये. तस्य । एवं च दृष्टार्थताऽम्यासस्य स्यादन्तरतो रजोनिर्मार्जन पौनःपुन्येनैव नान्यथा भवति तत्र न संपानियमोऽपि विवक्षितः । अष्टार्थत्ते तू त्रित्वविवक्षा स्यात्तद। त्रिरित्येव ब्रूपाल्लाघवादतो दृष्टप्रयोजनोऽम्यासोऽवकाशसंमार्ग इति स्थितमन्यत्र सकृ. देव । दृष्टार्थत्वाच सर्वावयवव्याप्त्यर्थमभ्यासः कार्य एव नत्वेकत्रेति च सिद्धम् । मूलदण्डं त्रुवस्य दण्डं पारिवासनमूलैः प्रागपवर्ग मूलमारभ्य कण्ठपर्यन्तं सकृत्समाष्टि विलस्य तु मध्ये बहिश्च पूर्वमेव जातत्वात्। अत्र खुवमेकमेव दव्यं प्रकृत्य विहिते समार्गे प्रथमतः सकृदेव मन्त्रो यौकस्मिन्द्रव्ये विचेष्टापृथक्त्वेनाओं निष्पद्यते सकृदेवतित्र] मन्त्र ब्यादिति परिभाषितत्वात् । न च तदपवादो द्रव्यपृथक्त्वेऽम्यावर्तत इति प्रव- सते, सुवस्य संसर्गिद्रव्यत्वाभावात् । संसगिद्रव्यं हि बहिराज्यादि जात्या कोडीकारे- गैकद्रव्यत्वाद्याख्यातं तत्रैवात्राविस्मरणाय विवृतं पुनः । सुचामपि मूलमारभ्यैव दण्डस्य पात्रपर्यन्तं प्रागपवर्ग मंमार्गः कार्यः सर्वसूत्रेषु प्रकारान्तरस्यादृष्टचरत्वात् । यदपि केचन व्याख्यातारो ब्राह्मणे लिङ्गप्रदर्शनेन दण्डमधस्तात्प्रत्यगपवर्गमुपरिष्टात्माग- पवर्ग संमार्टीति व्याचक्षते तदन्ये नात्यन्तमनुमन्यन्ते, प्राङ्न्यायोदङ्न्याययोर्बाधकस्य प्रमाणस्याभावात् । यदपि ब्राह्मगं तस्मादानी प्राञ्च्युपरिष्टालोमानि प्रत्यञ्चयधस्ता- दिति लिङ्गमुपपादयन्ति तदपि न, यतोऽयं जुह्समार्गे पात्रस्योपरिष्टादधस्ताच्च संमा! क्रमेण प्राचीमम्याकारमिति तथाऽपस्तात्प्रतीचीमिति प्रागपवर्गप्रत्यगपवर्गों विहिता- विति तयोस्तपात्वोपपादनाथार्थवादो न तु मुन्दण्डेषु प्रत्यगपवर्गपागपवर्गताप्रति- पादनायार्थवादस्तत्वकारस्याविधानात्, अन्यार्थादर्थवादादन्यत्र विधिकल्पने प्रमाणा- भावाश्यायविरोधाचेत्यास्तां तावत् । अरन्युपमानेन दण्डे प्राप्तिरित्यपि न । बाहुमा- घोषु श्रुक्षु त्वरस्नेः पात्रस्थानत्वात् । अरनिमात्रत्वेऽपि पात्रमरत्नरुत्तरार्धमात्रमिति संभवत्येव । प्राग्लोमप्रत्यम्लोमारनिसाम्यं पात्रस्यापोत्यलमतिप्रयासेन । भाष्येऽप्ये प्रागपवर्गता न बाधितव ।

वाचं प्राणमिति जुहूं प्राचीमग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतो मूलैर्दण्डम् ।

अत्र मन्त्रवाक्ये क्रियापदाभावादिषे त्यादिमन्त्रवास्किया लक्षणीयाऽथवाऽनुषको वा कार्यः । तत्रानुषङ्गस्य श्रौतत्वात्स एव युक्तः । तत्र पूर्वतनस्यायोग्यत्वादग्रिम एवानुकृप्यते स्त्रीलिङ्गकर्मकः । स च मा निर्मक्षं वाजिर्नी त्वा सपत्नसाहीर संमा- उमीति । चक्षुः श्रोत्रमित्यत्राप्ययमेव ज्ञेयः। संमार्टीति पूर्वस्मादनुवृत्तेन जुहू मित्यन्वयः ।