सत्याषाढविरचितं श्रीतसूत्र- -[१प्रथमप्रभे-
- तत्प्रकारमाह-
यत्प्राक्खननात्तत्कृत्वा मन्त्रेण पुरीषं खात्वा हरति ।
स्थलान्तरे देवस्य सपितुः सब इति खास्वा तत्पुरीषमखातायां वेद्यामाहरे दित्यर्थः । यममानेन पशुकामो वैदिमाहार्यपुरीपों करिष्य इति कृते संकल्पे खननेन पुरीषमाइ- स्याऽऽहार्यपुरीषां कुर्यात् ।
अत्र पौर्णमास्यां वेदिं करोति ।
सिद्धे सत्यारम्भो नियमायेति न्यायात्पौर्णमास्यामत्रैव वेदि करोत्यमावास्यायो त्वत्र पूर्वेचूर्वेति फलति । एतज्ज्ञापयितुमेव पूर्व नोक्तं वेरकरणानन्तरं बहिराहरणात्पूर्व वा सत्रामिधानेन तत्रैवामावास्यायो वेदिः स्यानात्रापि तदर्थमेवोक्तं तत्रैतत्कृत्वोपवास- स्यमावास्यायामितिकर्तव्यत्वेनोक्तमेव करवेति तत्र वेदिकरणस्यानभिधानात्तत्कार्यमिति तत्रैव विवृतं ज्ञेयम् । तावदेव कृत्वेत्यस्मिन्पक्षे सत्येवेदमारभ्यते ये()विकल्पद्वयम् ।
पूर्वेद्युरमावास्यायाम् ।
करोतीत्यनुवर्तते । तत्र वेदं कृत्वा वेदि करोतीति श्रुतेदेन विना वेदेः कर्तुमशक्य- स्वाद्ययास्थानस्थित वेदमपेक्ष्यानन्तरमेव करोति स्थानविशेषोऽत एव नोक्तोऽस्मिन्पक्षे सामर्थ्यादेव तसिद्धेरिति भावः । पक्षान्तरमाह-
पुरस्ताद्बर्हिष आहरणात् ।
अत्र पक्षे वेदं स्थानादपकृष्य सामर्थेन पूर्वे कृत्वा पश्चाद्वेदिं ततो यहिरिघमस्त- सोऽन्तदीत्यादिशाखापवित्रकरणादि पूर्ववत् । पक्षद्वयभेदकवाशब्दाभावेऽपि प्रमाणमु. पन्यस्तं न विस्मरणीयम् । पूर्वेयुर्वेदिकरण उत्तरपरिमाहे ब्रह्मण आमन्त्रणानुज्ञापक्षे कथं वेदिः स्यादत आहे-
यत्प्रागुत्तरस्मात्परिग्राहात्तत्पूर्वेद्युः करोति सह वोत्तरेण परिग्राहेण ।
अन्यदुत्तरपरिग्राहामृत्याप्यलेपनिनयनानन्तरं विकृतिविशेषे सद्यस्काले पूर्ववतब्रह्मके कर्मण्यामिक्षादौ सह वेत्ययं पक्षः । अथ वा विनवाऽऽमन्त्रणानुज्ञाभ्यामुत्तरपरिमाहः । प्रकृतमाह-
ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीत्यामन्त्र्य परिगृह्णाति ।
प्रणव उक्ते करोतीत्युक्तमेव ।
विपरीतमेके समामनन्ति मन्त्रैः पूर्वं परिग्राहं यजुर्भिरुत्तरम् ।
यमन्त्रैर्वसवस्त्वेत्यादिभिः पूर्वपरिग्राहोऽस्मच्छाखायामुक्तस्तैरुत्तरपरिमाहं समाम. नन्ति यजुतिमसीत्यादिभिरुत्तरपरिग्राहो वक्ष्यतेऽन्यः शाखिभिस्तैः पूर्वपरिग्राह १ क. ग. च. छ. स. ह. ड. ह-प्रागु । २ क. ग. च. उ. ड, 'न्य उत्त