पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४९

अपहतोऽररुः पृथिव्पै देवयजन्या इति द्वितीयमपादत्ते ।

मनं गच्छेत्यादित्रयं पूर्ववत् । न पुनराग्नीध्रस्योपवेशनमुत्तानहस्तकरणं तयोः परि- ग्रहे व्यापृतत्वात् । बधानेति पूर्ववत् । अथाऽऽग्नीधः-

अवबाढा देवयजन्या यातुधाना इति द्वितीयमभि गृह्णाति ।

द्वितीयमिति क्रियाविशेषणं पूर्ववजलिना पुनः परिगृह्याऽऽस्त इति तु समानं चतुर्षपर्यन्तम् । अध्वर्यु:-

द्रप्सस्ते दिवं मा स्कानिति तृतीयं प्रहरति ।

स्पष्टम् ।

अपहतोऽररुः पृथिव्या अदेवयजन इति तृतीयमपादत्ते ।

व्रजं गच्छेति वर्षतु त इति द्वयं वधानेति पूर्ववत् । आग्नीधः-

अवबाढोऽघशꣳस इति तृतीयमभिगृह्णाति ।

उक्तम् । मध्वर्यु:-

तूष्णीं चतुर्थम् ।

अपादानहरणावेक्षणद्वयनिवपनानि तूष्णीमेव । मात्र प्रहरणमित्याह-

सर्वं दर्भꣳ हरति ।

अवशिष्टं सर्वम् । आग्नीध्रः-

अररुस्ते दिवं मा स्कानिति चतुर्थमभिगृह्णाति ।

नात्र परिग्रहः । आस्त इति निवर्तते । अग्रेऽभिग्रहणामावात् ।

स्फ्येन वेदि परिगृह्णाति ।

अध्वर्योरधिकारः । अग्रे करिष्यमाणस्य प्रतिज्ञामात्रं परिग्रह शब्दार्थप्रदर्शनार्थम् । अग्रिमेण कर्मणा वेदिदेशः परिगृहीतः । परितो गृहीतः परिच्छिन्नो दर्शपूर्णमासाङ्ग- स्वेन कृत इति यावत् ।

वसवस्त्वा परिगृह्णन्त्विति दक्षिणतः प्राचीं लेखां लिखति ।

स्फ्यैनेति पूर्ववत् । दक्षिणतो दक्षिणपाधै सनामानुसोरण प्राची दक्षिणां श्रोणिमा