पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ सत्यापाढविरचितं श्रौतसूत्रं- [१प्रथमप्रभे- कस्मादेवमिति चेत् । उच्यते-बधान देव सवितरिति मध्यमपुरुषेणोपदिश्यमानस्य कर्ता संबोध्यमानमा( आ ? )मोनो यतोऽवबाढो दुरस्युरिति प्रतिवक्ता कर्तारमात्मानमावे. दयति । तस्मादवबाधनमस्मा उपदिशदुत्करे निवपति । नो चेत्तस्मा इत्यनर्थक स्यादपेति च ।

स उत्करो भवति ।

तत्स्थलमुत्करशब्दवाच्यं यत्र निवपति । उत्किरत्यस्मिन्सतृणं पांसुमित्युत्कर इत्यवयवानुसंधानक्रियानिमित्तत्वेऽपि रूट एवायं शब्द इति दर्शयितुं स इत्युक्तं स एवेत्यर्थः । अयमुत्करप्रदेशः सिद्धो मवति ।

अवबाडो दुरस्युरित्याग्नीध्र उत्करमभिगृह्णात्यञ्जलिना ।

उत्करदेशमभिगृह्णाति च्छादयति तमतो मामौगिति मन्त्रलिङ्गात् । व्याख्यातं च वामणेन-इत्याहानिनुक्त्या इति । यथोत्करे निहितो भ्रातृव्यो न मुच्यते तथा न्युने- नाञ्जलिना गृहातीति सिद्धोऽर्थः । अत्र भाष्यकृतोक्तमानीघस्याञ्जली निवपतीति तत्तु सूत्रान्तराभिप्रायेण वैखानसोये तथोक्तेः । परं तु ताहगर्थस्यास्मत्सूत्रादप्रतीतेः सूत्रासंगत. स्वादापस्तम्बेनापि कृतव्याख्यासमानार्थतया स्फुटतरमभिधानादुपेक्ष्यमिति मन्यन्तेऽन्ये । आपस्तम्बे हि निवपनपर्यन्तं पूर्वमानाधिस्याधिकार एव न दर्शितः 'न्युप्तमाग्नीध्रोऽज- लिनाऽभिगृह्णाति' इति। अस्मदाचार्यस्य तथैवेष्टम् । यत्पुनः पूर्वमेवोत्तानौ करौ कृत्वाऽऽग्नीध्र उपविशतीति तत्र नाञ्जलिकरणमुक्तमपि भ्रातृव्यस्याञ्जलिना करिष्यमा- नावबाधनाय । संनद्धेन स्थातव्यमञ्जलिकरणे थथा विलम्बो न मवेत्तथा सन्नद्धे सति भ्रातृव्यस्तम्बयजुषा न्युप्तमात्र एवानिमुक्तयेऽभिगृह्यत इति मन्त्रब्राह्मणार्थोऽभिप्रेत इति दर्शितम् । यः कश्चिदतकितो दुष्टं निरोद्भुमिच्छति स आयतनहस्त एवाऽऽदौ तिष्ठन्पश्चात्समीपस्थं गृह्णातीति प्रसिद्धिरनुगृहीता च भवति ।

परिगृह्याऽऽस्ते ।

अञ्जलिना त्यक्तामधसंधानेन हि परितो ग्रहणं नान्यथेति ।

एवं द्वितीयꣳ हरत्येवं तृतीयम् ।

अत्र प्रहरतीत्यनेन वेदिसंस्कारेण प्रधानभूतेनाऽऽदानादि पूर्वमङ्गं प्रति परिगृह्याऽऽस्त इत्यन्तमतिदिष्टमेवैवमेवमिति पुनः परस्परमन्त्रे लक्ष्यकथनार्थ, तेन नात्र प्रथम एव पर्याय(ये) मन्त्रोऽपि तु त्रिष्वपि त्रिर्यजुषेति श्रुतेः । विशेषमाह-

मा वः शिवा ओषधयो मूलꣳ हिꣳसिषमिति द्वितीयं प्रहरति ।

अत्र पृथिवि देवयजनीत्यस्य स्थानेऽयं मन्त्रः । पृथिव्यै वर्मासीति तन्त्रं विभुत्वात् । १क. ग.च. छ.ट. स्परे मन्त्र । छ. ड. स्परम ।