पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4. १० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने इति वाच्यम् । देवताया यागसंबन्धो यदि विग्रहेण स्यात्तदैव मुख्यार्थपरिग्रहो घटेत । किंच नार्थत्यागोऽपि तु तस्मिन्मत्येवाधिकस्य प्रवेशाङ्गीकारात् । तथैव देवताधिकरणे प्रतिपादितं नवमे च देवता वा प्रयोजयेदतिथिवशोजनस्य तदर्पत्वा- दित्यादिभिर्देवताविग्रहत्वेन पूर्वपक्षस्यापि वा शब्दपूर्ववाद्यज्ञकर्मविधानं स्याद्गु- णत्वे देवताश्श्रुतिरिति विग्रहनिराकरणेन देवतासंस्कारो न याग इति स्थापित, तत्कथं वषट्कारेण दानं यागः स च होतार वषट्कर्तरीति चेत् । न । दानार्थेन धातुना तद्धित- चतुर्थीभ्यां च स्वार्थसिद्धये हविष्प्रतिग्रहीतृत्वमोक्तृत्वनिर्वाहार्थमवश्यं विग्रहवत्त्वेन विधानं पर्यवस्यति । न चैतावता देवतासंस्कारो यागः स्यात् । किं च, इन्द्राद्यर्था न लौकिका येनेन्द्रादिपदानां लोकतः शक्तिग्रहो भवेकित तेऽपिशास्त्रादेव ज्ञेयाः। शास्त्र च विग्रहवत एव बूते तत्रैव शक्तिग्रहो न तु विग्रहविधुरे व्यवहारोऽस्ति । न च शब्द एवं तावद्दे वतास्वरूपं पदार्थत्वेन प्रमाणाभावात् , तादृगप्रतीतेश्च । तस्माद्याहशेऽर्थे शक्तियहस्ताहगेव तत्तद्देवताशब्देन वाच्यं तत्रैव देवतात्वेन विधिः । किं च तद्- पर्यपि वादरायणः संभवात् ' इत्यनेन सूत्रेण भगवता बादरायणेन क्रममुक्तिनि- हाय देवतानां विग्रहवत्त्वस्थापनेन ब्रह्मविद्याधिकारस्तासामुक्तोऽन्यथोपासनादिकर्म- भिस्तत्तदेवतास्वरूपप्राप्त्या मुक्तिफलोपपादिकानां श्रुतिस्मृतीनामप्रमाण्यमेव प्रसज्ये- तेति शारीरकमीमांसायां देवताधिकरणे स्थापितम् । भगवता बादरायणेनैव विरोधः- कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ' इति च विग्रहवत्वमुक्तम् । तदुक्तमेव मनप्ति कृत्वा तत्र तत्र सूत्रकारैर्देवतासारूप्यादि कर्मफलमुपदिश्यत इति वक्तव्यम् । न च राज्यादिकानामचेतनानां देवतात्वाद्देवतास्वरूपप्राप्तिरप्यनुपपन्नेति वक्तव्यम् । तत्रापि चेतनत्य तत्तच्छरीर[स्थ] स्यैव देवतात्वस्वीकारात्। दृश्यते हि देवताः प्रति मध्यमपुरुष- युमत्प्रयोगोऽतो नाचेतना देवता । प्रतिपादितमेतन्निरुक्तादौ प्रपञ्चेन । न च शाखा- दि प्रति युष्मच्छब्दप्रयोगाद्यभिचार इति वाच्यं, तत्रापि चेतनस्याधिष्ठातुः स्वीकारा- दित्यपि तत्रैव प्रतिपादितम् । किं च सर्वेऽपि न्यायाः प्रयोगपर्यवसानफलाः । न न कर्मप्रयोगरचना विना सूत्रैरन्यतोऽवगम्यते । प्रयोगे च कर्तृविशेषनियमों मन्त्रादितिकर्तव्यतानियमश्च सूत्रकारैरेव कर्तव्यः । तत्र व्यवहारदर्शनेन शब्दशक्ति- अहो न तु न्यायसिद्धशक्तिग्रहमपेक्ष्य व्यवहारो लोकव्यवहारे तथात्वाभावादनादि- व्यवहारशक्तिपर्यालोचने मानमिति च स्थितिः । सूत्रकारास्तु चोदनासु फलभोक्तृ- कर्तश्च परिमाप्य व्यवस्थापयन्ति लाघवेन व्यवहारसिद्धये । ऋग्वेदयजुर्वेदसामवेद- विहितेषु कर्मस्वनादेशे होताऽध्वर्युरुनाता च क्रमेण कर्तारः । आदिष्टा एवान्ये भवन्ति । ततस्तु न यजमानस्यौत्सर्गिकं कर्तृत्वं वेदोपाधौ । तत आदिष्ट एवं कर्म- १ ख, छ, रूपप।