पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i ११०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४५ कारः प्रक्षेपमात्रार्थो न तु दानार्थोऽपि । अत्र भाष्यकारेण पश्चात्पश्चादिति पश्चादपव. र्गत्वेन व्याख्यातम् । अपवर्गवाची प्रतीचीनशब्दो न प्रयुक्तः पश्चाच्छब्दस्तु कथम- भ्यस्तोऽपवर्ग ब्रूयादपवर्गो हि त्रयाणामेकस्तत्र वीप्सा घसंबद्धैव। नच पश्चात्पश्चाद्भाग इति व्याख्येति प्रथमेनासंबंन्धात्किमपेक्षया प्रथमः पश्चाद्भवेत् । प्राचीनापवर्गताऽऽप- स्तम्बादिभिः साक्षादेवोक्ता, सूत्रान्तराण्येतत्समानार्थानि मदुक्तप्रकारेणैव व्याख्या- सानि, कथं भाष्यकारेण व्याख्यातं परिभाषाबाधेन सद्विचार्यम् । मन्त्रः सर्वोऽपि बौधायनेनैक एवाङ्गीकृतो देवताश्चोक्ताः कात्यायनेनापि देवतार्थत्वे तु शेषनाशे येन केनाप्युदकेन कार्य निनयनं देवतानिर्देशश्च प्रतिपत्तिमात्रत्वे तु न प्रतिनिधिर्निनयन- लोप एवेति ज्ञेयम् ।

निनीय वाऽभितपति ।

द्वयमेकत्र कृत्वा निनीय पश्चाद्भूमिगतमुल्मुकेनाभितपति । एकतादिदेवतास्तु बौधा. यनेन व्याख्यातास्तासां नानात्वेऽपि ते देवा आप्येष्वमृजतेति बहुवचनैनकशेषादुत्पन्नेन परस्परसापेक्षाणामेव देवतात्वं, तथा चैक एव मन्त्रस्तत्रापि पिता पितामहः प्रपिता. मह इत्येते त्रय इति पक्षेऽपि न प्राचीनावीतं तद्दर्शितमेव परिभाषायाम् । अथ वेदिकरणम् ।

अपरेणाऽऽहवनीयं यजमानमात्रीं वेदिं करोति ।

आहवनीयस्य पश्चिमरेखामारभ्य पश्चिमभागे वेदिं करोति । वेदिरिति संस्कारव. चनः शब्दस्तेन वक्ष्यमाणसंस्कारैः स्थलं यजमानमात्रं संस्कुर्यात्सा वेदिर्भवतीत्यर्थः । अरनिचतुष्टयं षण्णवत्यमुलानीति यावत् । शुल्बोक्तप्रकारेण ।

यावदर्थां तिरश्चीम् ।। २० ।।

करोतीत्यनुकर्षः । यावानर्थः प्रयोजनं यथा(या) सा यावर्था, तिरश्ची तिग्वि. स्तीर्णा यावता विस्तारेण हविषां सादनपर्याप्तं स्थलमपेक्षितं तावान्विस्तारः कार्यः । देयं तु यजमानपरिमाणमेव । इदं तस्मा इति याजमानम् । करणमन्त्रोऽयमनाशी. मन्त्रत्वात्तेन न जपधर्मो मन्त्रान्तेन कर्मसंनिपात एव ।

वेदेन वेदिं विविदुः पृथिवीशꣳ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदा निरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिं त्रिः संमार्ष्टि ।

मन्त्रेणैकवारं सर्वा संमृज्य पुनस्तूष्णीं द्वितीयतृतीययोः पर्याययोः सर्वाभव यावता स्थलेन वेदिर्भवेत्तावत् स्थलं संमार्टीत्युक्तं वेदेरद्याप्यजातत्वात् । पुरस्तात्स्तम्ब १ ग, श्चात्पश्चाद्भा । २ ठ. ड गृहीत्वा । १९