पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ सत्यापाढविरचितं श्रौतसूत्रं-. [१प्रथमप्रश्ने-

अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभिप्रतप्य ।

पात्री निर्णिज्यतेऽनेनेति तथाऽङ्गुलीप्रक्षालनं पृथक्पृथक्पात्रयोः स्थापिते पृथक्पृथ- कप्तताप्योल्मुकेन ज्वलता पात्रीनिर्णैजनमपि प्रक्षाल्य पात्री पात्रान्तर एत स्थितं मवति । प्रताप्य पृथक्त्वेति बौधायनोक्तेः पृथग्निमक्तिनिर्देशाच्चकाराच पृथक्त्रताप्य संसृज्ये. त्यर्थः । उल्मुकं तु श्रपणीयामेरेव ।

अपरेणाऽऽहवनीयमपरेण वा गार्हपत्यꣳ स्फ्येनोदीचीस्तिस्रो रेखाः कृत्वैकताय स्वाहेति पश्चात्पश्चादसꣳस्पन्दयꣳस्त्रिर्निनयति ।

अपणार्थत्वेन सत्येव विकल्पेऽपरेणामिमित्येव वाच्ये गौरवं व्यवस्थार्थ यत्रापरे । गाऽऽहवनीयं बहिस्तीर्ण तत्रापरेण गार्हपत्यं पशुपुरोडाशादौ मान्यत्रेति । उदीची- रंगायतास्तिस्रो रेखाः प्रागपवर्गरेखाणामदृष्टार्थता मा भूदिति कृत्वेति त्याप्रत्यये- नोत्तराङ्गतोक्ता तामिः संस्कृत एव स्थले निनयति सूत्रान्तरे स्पष्टमेवोक्तम् । एकस्यामे- कवारमेवं निर्भवति । कथं तत्राऽऽह पश्चात्पश्चादिति वीप्सया तिसूषु रेखासु त्रिनिन- यनाभ्यासोऽर्थात्स्यात्पश्चात्पश्चात्पश्चिमेन पश्चिमेन पूर्व पूर्व न मेलयन् । अत्र पश्चात्स्पन्दनं न प्रतिषिध्यते किं तु पाश्चात्यनिनयनेन पूर्वस्य मेलनं प्रतिषिध्यते । एवं च प्रासंस्थ- तोक्ता भवति, लेपस्य सर्वस्य प्रतिपत्तिः सकृन्मन्त्रेण द्विस्तूष्णीं च त्रित्वं तावतक चरितार्थत्वात् । अस्पन्दयन्निति पश्चात्पश्चानिनीतेनातः प्रागपवर्गताऽऽपस्तम्योक्ता सिद्धा भवति । अस्पन्दयन्नमिलयन्परस्परं निनयनम् । संनिधानादस्पन्दयन्नित्येवमुक्तम् । कात्यायनीये प्रत्यगसंस्पन्दमानमिति, ताड्यातं च कर्कोपाध्यायेन प्रत्यगिति प्रतिव. चनान्न प्रागुदवाऽस्पन्दमानमिति समुपसर्गनिर्देशादसंगच्छन्न स्पन्दनमात्रप्रतिषेध इति । वैखानसेनापि पश्चादसंसृष्टं निनयतीत्यु तम् । मत्रः सर्वोऽप्येक एवेतिकरणेनकैनैव निर्दे. शाप्रयत्नान्तराभावाचाऽऽपस्तम्बेन पृथक्प्रयत्नकरणात्तस्यैव तथेष्टं न । मन्त्रो हि निनयनाझं नाभ्यासाङ्गमतः सकदेव । न च यावन्निनीतं तावदेव संस्कृतं मन्त्रेणान्यनिनयनाथ भवितव्यमेव मन्त्रेणेति द्रव्यपृषक्त्वेऽल्यावर्तत इति श्रीण्यपि निनयनानि सकलमत्रसाध्यान्येवेति वाच्यम् । मुष्टिमानेनेव वर्हिषः स्त्रुवपूर- नेवाऽऽज्यस्यात्र पृथगर्थतासंपादकाभावादेकनेव द्रव्यमुपलक्षणम् । अथ देवताभेदात्स्वा- हाकारभेदाच यत्र मन्त्रगणेन कर्म चोद्यते प्रतिमन्नं तत्र जुहुयादिति कर्मभेद इति चेन्न । प्रतिपत्तिकर्मत्वान्न दविहोमधर्मः । नाप्येताप्तां हविर्भाक्त्वं ते देवा आप्येवमजतेति श्रुतेस्तासां न देवतात्वं विधिकरणमात्रं, निनयतिधातोरप्यदानार्थत्वान्मन्त्रे स्वाहा। सत्यापाठस्य ।