पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ६ष०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४३

देवस्त्वा सविता श्रपयत्विति दर्भैरभिज्वलयति ।

अधिनाक इत्यन्तः । ज्वलद्भिर्दभैरमि उपरि वलयति ज्वालां करोति तत्पाकार्थम् । पूर्ववदेव रक्षतामपघातायेत्येव वाक्यशेषाद्धर्ममात्रं प्रतीयते तथाऽपि अपयत्विति मन्त्रलि. झाच्छूपयतीति वाक्यशेषाच दृष्टार्थता । तेन यथा श्रपणं स्यात्तथाऽभिज्वलयति ।

अग्निस्ते तनुवं माऽति धागित्युल्मुकैः परितपति ।

रक्षस्वेत्यन्तः । अनेकैरुल्मुकैः प्रतितपति प्रतितापयति । अन्तर्भूतणिनर्यः सकर्मको वा । मन्त्रः प्रतिपिण्डम् । प्रत्यभितोऽसंलग्नैस्तदभिमुखैरिति यावत् । माऽति धागने हव्य रक्षस्वेति मन्त्रलिङ्गाच्च ।

सं ब्रह्मणा पृच्यस्वेति वेदेन साङ्गारं भस्माभ्यूहति ।

पात्रेण गृहीत्वा वेदेन मस्माभिव्याप्य पिण्ड उहति प्रसारयति । प्रतितापो यथा न दहेत्तथा भस्मना साङ्गारेणाऽऽच्छादयतीत्यर्थः । एवं च दृष्टार्थता ।

ब्रह्म गृह्णीष्वेति वा ।

पूर्वेण विकल्पः ।

अविदहन्तः श्रपयतेति संप्रेष्यत्यत्र वाचं विसृजते ।

ब्राह्मणेऽविदहन्तः श्रपयतेति वाचं विसृनत इति दर्शनादयं वाग्विसर्गः प्रतिकरण: मित्यामाति, तन्न संभवति । नियमाभावो हि विसर्गस्तस्यामावरूपस्य विधातुमशक्य- स्वान्मन्त्रलिङ्गविरोधाश्च । तस्मादत्र क्रिया काचनाध्याहर्तव्या, मन्त्रलिङ्गाच प्रैषार्थताs. षगम्यते । न च प्रेष्याः प्रतीयन्ते, नाप्यन्येषामनन्तरं किंचित्पुरोडाशपाकानुगुणं कर्म विधीयते, नापि स्वस्य, तस्मादुच्चैरुच्चारणमात्रं प्रेष्यतीत्यनेनोच्यते । तस्माद्गां दोहपवित्रे रज्जु५ सर्वा पात्राणि शुन्धतेति संप्रेष्यतीतिवददृष्टार्थम् । आपस्तम्बेनाऽऽग्नीधो हवींषि सुशृतानि करोतीत्यभिधानात्तं प्रति प्रेषस्तन्मतेन संभाव्यते नात्र तथा बहुवचनानुप- पत्तश्च । वरमदृष्टार्थताऽत एव वैखानसो यथाब्राह्मणमेष विधत्ते तदपि प्रायेणाप्येत- द्यजुरुक्त्वा वाचं विसृजत इत्यर्थोऽवगम्यते । ब्राह्मणमपि सार्थवादं न दृष्टं फलं किंचिदाह यज्ञमेव हवी व्यभिव्याहृत्य प्रतनुते पुरोरुचमविदाहाय शृत्यै करोतीति । तस्माददृष्टार्थमेवोच्चारणं नियमनिवृत्तिप्राप्ताविदमुच्चैदेदिति । तत एवाभिवासयन्वाचं विसृजत इति यदुक्तं तदपि न विरुध्यते । तेनाभिवासनानन्तरमेवाविदहन्ते(न्त इ)त्यु. चारणमङ्गारान्सबुध्याप्रैषदर्शनात्साङ्गारमत्माभ्यूहनं प्रत्येवाङ्गमिति पूर्वमभिवासनशब्देन साङ्गमेव ग्रहणमतो न व्यवधायकमिति सर्व दर्शयितुमत्युक्तम् । योऽयमभिवाप्तनो- त्तरकालं विसर्ग उक्तः स एवास्मिन्काले पर्यवसन्न इत्यर्थः । तत्र भाष्यकारेणोक्तमवि. स्मरणायात्रेत्युक्तमिति तत्सूत्रकाराचातुरीसंपादकत्वादुपेक्ष्यम् ।