पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ष०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १४१ इति योगेन देवतासंबन्धश्रवणात् । शृतस्य वेद्यां स्थितस्य च वषटकारेण प्रदानसंभ- वादित्येवमवचनेनैवात्र काण्डानुसमय इति व्याख्येयं सूचितवत्सूत्रकारेण यथाऽवदानप्र. दाने इति संयुक्तत्वे सामर्थ्य सिद्धत्वमदर्शयताऽग्रिमे चोदाहरणे प्रधानसनिकर्ष इत्या- दिना दर्शनाच्च । अर्थसिद्धसंयुक्तत्व उदाहरणमाह-

उद्वपनं निष्पवनं च सर्वत्र प्रधानसंनिपाते क्रियन्ते ।

चकारेणावहननप्रस्कन्दनादि गृह्यते तदपेक्षया क्रियन्त इति बहुवचनात्सर्वत्र विकृती सर्वेषु नानाबीजेषु प्रधानसंनिकर्षे प्रधानानां संस्कार्याणां बीजानां प्रत्येकं संनिकर्षे काण्डानुसमय इति यावत् । तस्मिन्सत्येवोद्वपनादीनि क्रियन्त इत्यर्थः। संस्कार्याणां मोजानामवघातादिना संस्कारो दृष्टतण्डुलीभावप्रयोजनकस्तत्रावघातमात्रे सति प्रयोज. नासिद्धेस्तदादि पूर्वपूर्वमुत्तरोत्तरस्य करणं स तण्डुलीभावप्रयोजनं साधयेन्नियतकाण्डानु. समय एवात्र न तु सजातीयमेकमवहननं सर्वबीजेषु, तत उद्वपनायेकैकं तथैवेति भावः । एवं च पदार्थानुसमय औत्सर्गिकस्तद्वाधकोऽन्य इति सिद्धम् ।

मखस्य शिरोऽसीति दक्षिणं पिण्डमादाय घर्मोऽसि विश्वायुरिति दक्षिणे कपालयोगेऽधिश्रयति ।

दक्षिणे कपालयोगे स्थापयितुं योग्यं दक्षिणमित्युक्तत्वात् । आग्नेयमिति नोक्तं देशभेदाप्रत्यायकत्वात् । तस्माद्देशभेदप्रत्यायिकया च माविन्या संशया व्यवहृतं, तेन विभवन्त्यपि कर्माणि देशभेदेन द्रव्यपृथक्त्वात्ममन्त्राण्यावर्तन्त इति पूर्वोक्त एवमेतेषा- मित्यादिन्याये हेतुरुक्तः । तथा च पिण्डपुरोडाशशब्दाभ्यां क्रोडीकारेण कर्मविधानेs- पि द्रव्यपृथक्त्वमस्त्येव यथाऽऽज्यत्वादिना क्रोडीकृतेऽवयवपृथक्त्वम् । अधिश्रयणे वैकल्पिकं मन्त्रान्तरमाह-

घर्मघर्मे श्रयस्वेति वा ।

अनेन वाऽधिश्रयति- उक्तं विध्यन्तं हविरन्तरेऽतिदिशति-

एवमुत्तरम् ।

पिण्डमित्यनुकर्षः । शेषं पूर्ववत्समन्त्रम् ।

अतुङ्गमनपूपाकृतिमश्वशफमात्रं कूर्मस्येव प्रतिकृतिं करोति ।

पिण्डमित्यनुकृष्यते । कमठस्येवेषत्प्रतिकृति प्रतिमां करोति। तत्रापि कश्चित्कूर्मस्तुङ्गः कश्चिदपूपाकृतिरपूपवन्निम्नस्तदुभयविलक्षणो नात्युच्चो नातिनीच इत्यर्थः । वैखानसो नोच्चमनतिनचिमित्याह । अश्वशफमात्रमिति तु परितो मानम् । १ क. ख. ग. च. निकर्षे कि । २ क, ख, ग, च, छ.ट. ठ. ण. धिक्षकग. च. छ. ट. ठ. ड.र्थः । नो'।