पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । .१३९

इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन दक्षिणस्मात्कपालयोगादङ्गारानपोह्योत्तरस्मादपाहेति ।

कपालानां युक्तानामेककार्यसमवायिनां समुदायो योगस्तस्माद्दक्षिणस्मादादावपो- ह्योत्तरस्मात्पृथङ्मन्त्रेणापोहति निःसारयति । एतावत्पर्यन्तं तन्त्रेण कपालमात्रत्वो- पाधौ संस्कारानुक्त्वा भस्मापोहनप्रभृति दक्षिणोत्तरयोगत्वोपाधिना यत्कार्य पृथनिर्दिष्टं तत्रेदं मन्त्रलिङ्गमपि कारणं यन्मन्त्र सेना नानाव्यक्तिसमुदाय एकप्रयोजनको दृष्टस्त- सस्तु मन्त्रवर्णेनैव समुदायस्य प्रकाश्यत्वादक्षिणोत्तरविभागौ विना तदसिद्धराद्विभा- गोऽपि ज्ञात इति मत्वा तेनेदमुक्तं दक्षिणस्मादित्यादि ।

एवमनुपूर्वाण्येषां कर्माणि क्रियन्ते ।

यथा दक्षिणस्मात्कपालयोगादपोह्योत्तरस्मात्कपालयोगादपोहतीति देशभेदाव्यमेदे समश्रकर्मावृत्त्याऽऽनुपूर्वीक्रम उक्त एवं दक्षिणोत्तरदेशभेदभिन्नानां हविषामपि समन्त्रकर्मावृत्त्या क्रमेण कर्माणि क्रियन्ते न तु स्वेच्छया । वर्तमानतानिर्देशेन नेह विधिरपि तु न्यायप्राप्तमेवेत्युक्तम् । एषां पर्वद्वयसंबन्धिनां प्रकृतानां पुरोडाशानामेवेति माति तथाऽपि सांनाय्येऽप्यासादनप्रभृति दक्षिणोत्तरभावापन्नयोः शृतदनोः पृथग्द्रव्य- स्वप्रयुक्तमेव कार्य मा भेरिति यवदानं यदवदानानीति, तथाऽन्यान्यप्यग्रिमाणि कार्याणि तयोरप्यावृत्त्या दक्षिणोत्तरक्रमेण च स्युरन्यथा तन्त्रसंभव उत्पत्तिकमा वा केन निवारितौ स्याताम् । तस्मात्सर्वहविषां ग्रहणम् । एवं पदार्थानां क्रमेणैव संस्कार्यत्वमुक्तमिदानी तेषु प्रवृत्तानां सजातीयविजातीय- कर्मणामपि कि सर्वाण्यकत्र पदार्थे समाप्यान्यत्र पदार्थ समापनीयानि किंवा सर्व पदार्थेषु एकमेकमेव समाप्यैवं संदेह उभयत्वयोव्यवस्था दर्शयितुमुत्सर्गतस्तावत्पदार्थ- क्रमेणैकैककर्मण एव क्रममाहः

समानजातीयेनैकैकमनुसमेति कृत्स्नमेकैकमपवर्जयति ।

एकविधिविहितमेकप्रकारं कर्मैका कर्मव्यक्तिः समानार्थसंबन्धिनी क्रियमाणप्रकार- स्वात्समानजातीया व्यक्तिर्ननु सैव व्यक्तिर्नहि पूर्वपदार्थे कृता नष्टोत्तरत्र संबद्धा कर्तुं शक्या, तस्माद्व्यक्तिभेदे जातिरवश्य वाच्या, तस्यामभिव्यञ्जकं तु तत्तद्विधिविहि. तत्वमात्र, तेन संस्कार्येषु पदार्थेषु मध्य एकमेकमेव पदार्थमनुक्रमेण सनातीयेनकेनैव कर्मणाऽनुसमेत्यनन्तरं तथैव विजातीयेनापीति । समेति संबध्नाति । सोऽयं पदार्थानु- समय इति व्यपदिश्यते क्रमविशेषः । प्रथमप्रवृत्तं कर्म सकृच्छ्रुतसर्वपदार्थोदेशेन तस्यासमाप्तौ वाक्यार्थासमाप्तेन वाक्यान्तरविहितस्य विनातीयस्य प्राप्तिः । यद्यपि १ ट. नंतु सै। -