पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ सत्याषाढविरचितं मौतसूत्र- : [१प्रथमप्रश्न

ध्रुवमसीति तस्मिन्कपालमुपदधाति ।

अबस्थापितेऽङ्गार एक कपालं स्थापयति । पहेति मन्त्रान्तः ।

निर्दग्धमिति तस्मिन्नङ्गारमधिवर्तयति ।

उपहिते कपालेऽन्यम् ।

धर्त्रमसीति तस्मात्पूर्वम् ।

अत्रैवमित्यनभिधानादुपदधातीत्येवाऽऽकृष्यते न पूर्वस्य धर्मान्तरमपि । अयमाशयः- एकमने कपालमुपदधातीति श्रुतेस्तस्मिन्कपालमुपदधातीत्यत्र सूत्र एकवचन कपालमित्यु.. द्देश्यगतमपि विवक्षितं, तेन तस्मिन्नेकस्मिन्नेव प्रथममेकमेव कपालमुपदधातीति, तथा तस्मिन्नगारमधिवर्तयतीत्यत्रापि तस्मिन्नित्येकवचन विवक्षितं, तस्मिन्नेकस्मिन्नेव तस्मा. प्रथमात्पूर्व द्वितीयमुपदधाति ।

धरुणमसीति तस्मात्पूर्वम् ।

द्वितीयात् ।

अष्टाकपालस्य द्वे मध्ययाद्दक्षिणे त्रीण्युत्तराणि ।

स्पष्टम् ।

तयोर्धर्मासीति दक्षिणपूर्व मरुताꣳ शर्ध इति दक्षिणापरम् ।

तयोर्दक्षिणयोदक्षिणपूर्वमाग्नेयदिग्मागे दक्षिणापरं निप्रतिदिग्मागे ।

यवमस्याशा दृꣳह रयिं दृꣳह पोषं दृꣳह सजातानस्मै यजमानस्य पर्यूहेत्युत्तरापरम्।

वायव्ये।

विश्वाभ्यस्त्वाऽऽशाभ्योऽच्छिद्रꣳ सजातवनस्याया उपदधामीत्युत्तरपूर्वम् ।

ईशान्ये । इदं द्वयमुत्तरेषां त्रयाणां व्यवस्थार्थम् । मध्यमस्य तृतीयस्याऽऽह-

चिदसीत्यवशिष्टमुत्तरतः ।

मध्यमात् । एतानि कपालान्यष्टावाग्नेयस्य पुरोडाशस्याङ्गस्था विहितानि । तथा- यं संख्याऽप्यानेयार्थी कपालानि च. न तु कपालार्थी गुणानां तु परार्थत्वादसंबन्ध तु इति न्यायात् । तेन विकृती यत्राऽऽग्नेयविकारा एकादशद्वादशकमालास्तत्राइडो- योपधानधर्मेणैवोप्रधान न तु संख्यासाम्येनानीपोमायैकादशकपालवदैन्द्रामद्वादशा- कपालवद्वा। वायव्ये। १