पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ १५०पटल:]:: महादेवकृतवैजयन्तीव्याख्यासमेतम् । प्रणीतामिः संयोतीति वचनमापस्तम्बे दृष्टमिति ताभ्य आनीय मदन्तीरधिश्रयतीति यदुच्यते सोऽर्थोऽस्मत्सूत्र एव स्फुटो भविष्यति । अत्र काले कल्पान्तरे तु कपालो- पधानानन्तरमधिश्रयणं दृष्टं तन्मा भूदित्यत्रेत्युक्तम् । अत्राग्नावधिश्रयणं यत्र हविः- श्रपणं तत्रैवेत्येके। इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेव- कृतायां प्रथमप्रश्ने पञ्चमः पटलः ॥५॥


1.6 अथ षष्ठः पटलः ।

आहवनीये गार्हपत्ये वा हवीꣳषि श्रप्यन्ते पश्चादग्नेः ।

सत्रेच्छया विकल्पः । तत्र वक्ष्यमाणं कपालोपधान कार्यम् । श्रप्यन्ते हवींषीति , बहुवचने श्रुत्यनुसारेण पर्वद्वयपुरोडाशापेक्षे । सानाय्यं तु गार्हपत्य एव वचनात् । अनेरायतनस्य पाश्चात्येऽर्धभागे श्रप्यन्त इति पूर्वेणान्वयः।

यथोक्तमुपवेषमादत्ते ।

धृष्टिरसीति पूर्वमुक्तं तत्स्मारयति यथेति । कालपृथक्त्वेन क्रियाभ्यासमन्त्रावृ. त्तिरे(त्ती ए)कद्रव्येऽपि दर्शितवान् । संनयतः प्रातरेख विकल्पेनाऽऽदाने मन्त्रान्तरमाह-

अभिहतꣳ रक्षो रक्षसः पाणिं दहाहिरसि बुध्निय इति वा तेन प्रत्यञ्चावङ्गारौ निर्वर्तयति।

तेनोपवेषेणानेः सकाशादायतन एव द्वावङ्गारौ पृथक्करोति । अर्थसिद्धे तेनेति तेनैवाङ्गारकृत्यं न तु सव्याङ्गुल्या कात्यायनोक्तया ।

अपाग्न इत्यन्यतरमुत्तरापरमवान्तरदेशं निरस्याप उपस्पृश्य ।

क्रव्यादर सेधेत्यन्तः । दक्षिणमङ्गारमिति वैखानसः । आयतनाबहिर्वायव्यदिशि निरस्य श्रौतमुपस्पर्शनम् ।

आ देवयजं वहेत्यवशिष्टमवस्थाप्य ।

यत्रं प्रदेशे कपालमुपधास्यति तत्रैव स्थापयित्वा । मन्त्रे बहुपदग्रहणेन मन्त्र- समाप्तिर्शिता । निर्दग्धमिति शाखान्तरीयस्य च ध्रुवमसीत्यनन्तरमपठितस्य विनियोग इति भ्रमः स्यात्तत आ देवयनमित्यस्य पाठानुसारेणारातय इत्यन्तः स्याद्धृवमसीत्यु- त्तरादिना स मा भूदिति अर्थक्रमेण पाठक्रमविच्छेदादित्यर्थः ।