पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३३ सत्यापाठविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने

अपि वा प्राणाय त्वेति प्राची प्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यवधारयति ।

प्राचीमुपलामीपन्नयति । तथैव प्रतीची मध्यदेशे दृषदः स्थितां करोति तृतीयन मण।

दीर्घामन्विति प्राचीमन्ततः ।

धामित्यन्तः । मध्यदेशात्प्राचीमुपला प्रोहतीति योग्यत्वाद्विप्रकृष्टमप्यनुकृष्यते ।

यथामुखमत ऊर्ध्वꣳ संततं पिनष्टि ।

पूर्वोक्तनियमामावेनैवातः परं मध्ये त्वविरमन् ।

देवो व इति कृष्णाजिने पिष्टानि प्रस्कन्दयति ।

पातयति दृषदः सकाशादुपलयैवेति वक्तुं प्रस्कन्दयतीत्युक्तम् । गृह्णात्विति मन्त्रान्तः।

अदब्धेन वश्चक्षुषाऽवेक्ष इत्यवेक्षते ।

अवनम्येक्षते पिष्टानि कृष्णाजिनस्थानि यानि प्रस्कन्दितानि ।

अव्यवकिरन्ती पिꣳषाणूनि कुरुतादिति संप्रेष्यति ।

असंवपन्तीत्यनेन विकल्पते मनः। प्रेष्यामाइ-

पत्नी पिनष्टि दासी वा ।

'उतार्थम् ।

सैतत्सर्वं करोति ।

यत्प्रेषेणोक्तं विशिष्टमव्यवकिरन्तीत्यादि तदृष्टार्थ प्रेषितम् । पिष्टानि पदः सकाशात्कृष्णाजिनाद्वा न व्यवकिरन्ती बहिविमनापादयन्ती तथा पिष्टानि सूक्ष्माणि कुर्विति यदुक्तं तत्सर्वं कुर्यात् । अनालम्भुकत्वादिना तयोरमावे प्रैषामावेऽप्यनोदेव वा कुर्यादेवेति नियम्यते । अध्वयोस्तस्मिन्काले कपालोपधाने त्याप्तत्वात् । प्रैपामावो लिङ्गविरोधात्प्रकृतावनूहांच।

अत्र मदन्तीरधिश्रयति ।। १८ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने पञ्चमः पटलः ।। ५

मदन्तीरपोऽधिश्रयति गार्हपत्य इति वैरवानसोक्तर्हिपत्ये मदन्तीरपः। संस्कार- निमित्तोऽयं शब्दः । तथाऽधिश्रयणेन संस्कारे सत्यनन्तरं भविष्यत्संज्ञया व्यवहरति । $ १. स. गच, विस्थापय क. स.ग. च. तत्सर्वे ।