५५०पटल:] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।
प्रक्षाल्य तण्डुलान् ।
शूर्पस्थास्तण्डुलानुदकेन गतमलान्कृत्वेत्यर्थः ।
त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादितः स्वाहेत्यन्तर्वेदि प्रक्षालनं निनयति ।
प्रक्षाल्यन्तेऽनेनोदकेन तन्निनपति प्रक्षिपति वेदिप्रदेशे शूर्पे प्रक्षालितानामुदकं पात्रान्तरे गृहीत्वा तन्निनयति । रक्षोभ्य इदम् । उभयोरुदकस्पर्शनं स्मृतिसिद्धमत्र न श्रौतं, तस्य तुषेष्वेव विधानादप उपस्पृशति मेध्यत्वायेति ब्राह्मणेन ।
व्याख्यातः कृष्णाजिनकल्पः ।
अवहननार्थमुक्तः कृष्णाजिनस्याऽऽदानादिविधिस्तेनाऽऽस्तरणान्तं पुनरपि कुर्यादि- त्यर्थः । कालदेशपृथक्त्वामावेऽपि प्रयोजनपृथक्त्वादावृत्तिरिति भावः ।
दिवः स्कम्भनिरसीति कृष्णाजिन उदीचीनकुम्बाꣳ शम्यां निदधाति ।
कृष्णाजिनमनुत्सृजन्नेवादित्यास्त्वग्वेत्त्वित्यन्तः । तत्र कृष्णाजिनस्य मध्य उदीचीनं कुम्बमूर्ध्वमागो यस्याः सा, युगविले शम्या यदा प्रवेश्यते तत्र यदुवं स्थूलमग्र स्थाप्यते यथा बिलादधो न पतति स स्थूलभागं (गः) कुम्बमुदगग्रां शम्यां निधायेत्यर्थः ।
धिषणाऽसि पर्वत्येति तस्यां दृषदमधिवर्तयति ।
तस्यां शम्यायां प्रतिष्ठापयति । प्रति त्वा दिवः स्कम्भनिस्विति मन्त्रान्तः।
पश्चार्धेनाभिनिदधाति ।
दृषदः पश्चिमेनार्धमागेन शम्यां छादयति ।
धिषणाऽसि पार्वतेयीति दृषद्युपलाम् ।
अधिवर्तयतीत्यनुवर्तते । पर्वतित्त्वित्यन्तः।
अꣳशवः स्थ मधुमन्त इति तण्डुलानवेक्षते ।
भवनत ईक्षते शूर्पस्थितान् ।
देवस्य त्वेति दृषदि तण्डुलानधिवपति ।
अधिवपामीति मन्त्रान्तः ।
त्रिर्यजुषा तूष्णीं चतुर्थम् ।
गतार्थम् ।
प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति पिनष्टि ।
सर्वमन्त्रपाठो विकल्पनिराकरणार्थः । सकृन्मत्रस्ततो यथार्थ पिनष्टि ।
.