पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

...S५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२९

नान्वीक्षते।

उपवापसमये परं च यावत्कृष्णाजिनं निर्गमयति ।

अवबाडꣳ रक्ष इत्यवबाधते ।

हस्तेनावष्टभ्योप्ततुपदेशं बाधते मावनैव रक्षसां बाधां भावयेदित्यर्थः ।

अप उपस्पृश्य ।

श्रौतमुदकस्पर्शनम्।

अभ्युक्ष्य कपालं निदधाति ।

अद्भिरभ्युक्ष्य यथास्थान स्थापयति ।

वायुर्व इति विविनक्ति ।

विविनक्तु मन्त्रान्तः । विवेचयति अनवहतान्त्रीहीस्तण्डुलांश्च ।

देवो व इति पात्र्यां तण्डुलान्प्रस्कन्दयति ।। १७ ।।

प्रक्षिपतीति पाव्यां संवपनार्थायाम् । प्रतिगृह्णात्वित्यन्तः । अत्र सामर्थ्यादनवह- सान्त्रीहीनप्यवहत्य तूष्णीं रूपा(तुषा)निर्गमयति । तण्डुलान्पाव्यां स्कन्दयित्वा सतः प्रेषः ।

त्रिष्फली कर्तवा इति संप्रेष्यत्त्यत्र वाचं विसृजते ।

नात्र त्रिरवघाताम्याप्तो विधीयते किं तु यथार्थोऽवघातसमुदाय एकं फलीकरण. मेवं त्रिस्त्रीणि फलीकरणानि । तेषां त्रयाणां प्रत्येकं पृथक्पृथकर्ताति(रो) हविष्कृदे. हीत्यनेन संस्कर्तृत्वमात्रविवक्षयैकत्वेनैवाऽऽहूना अपि । कर्तवा इत्यययं कुरुते- स्यस्मिन्नर्थे व्याख्येयम् । ततो दृष्टार्थमाह्वान स्यात् । फैलं विशरणं विसर्गत(स्त)ण्डु- लानां कोशलक्षणत्वगपसारणं. त(य)त्फलं तत्कर्तवा इति प्रैषार्थः। अभूततद्भावे चिर्दीर्घः । त्रिष्फलीकरणं त्रिवार तण्डुलानामेव कणिकाकोशेभ्यः पृथक्करणेन शुद्धताकरणम् । अत्रैव वाचं विसृजते यदुक्तं हविष्कृता वाचं विसृजत इति तस्यार्थोऽत्र वाचं विमृ. जत इति न तु हविष्कृदाह्वानात्पूर्वम् । कात्यायनेनोक्तमनन्तरं वाऽनन्तरमेव वैखान. तु सादिमिरप्युक्तं तथा मा भूदिति वक्तुमत्रेत्युक्तम् । अयमाशयः- -हविष्कृतेति हवि. कृदेहीति तस्य न शब्दपदार्थको निर्देशोऽपि त्वयंपदार्थकस्तत्र शब्दो लक्षणीयस्तेन प स्वोच्चारणमुच्चारणेन च कालस्तत्र वाग्विर्गविधानमतो वरं हविष्कृताऽर्थेन हविः, संस्कारं कुर्वता कतुं प्रवृत्तेन त्रिष्फली करणेन हविर्भवति तत्कव हविष्कृदित्युच्यते । सत्र क्रियाऽप्युपाधित्वेन वाच्या तया च काल लक्षणेति न लक्षणापरम्परेति । ततस्तु तस्मिन्सति वाग्विसर्गो युक्त इति । १ क्र. ग. च. छ. टे. ठ. ङ, कर्तव्यानिह । २ क. ग. . . फली करणं । न