पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सत्याषाढविरचितं श्रौतसूत्र- [प्रथमप्रश्ने- विशे याजुषहौत्रप्रवरनिर्णयौ । द्वाविंशे काम्येष्टिपशुबन्धाः । त्रयोविंशे कौकिली. सौत्रामणीसवाः काठकचयनानि च । चतुर्विशे प्रवर्यः । पञ्चविंशे शुल्बे विहारयोगा व्याख्याताः । षड्विंशसप्तविंशयोधर्मा इति । पितृमेधस्तु भारद्वाजीयो मुनिना परिगृ- होतो द्रौ प्रश्नौ । एतत्सूत्रप्रतिपाद्यं यज्ञशब्दो लक्षयति नाभिधत्ते । यतो यज्ञमिति यज्ञशब्दो यागमात्रे वषट्कारप्रदाने रूढस्तत्रैव प्रसिद्धः । 'यो वै सप्तदशं प्रजापति : यज्ञमन्वायत्तं वेद' इति प्रजापतेर्यज्ञशरीरस्य परमात्मन आश्रावयेत्यादि शरीरं निरूपित दर्शपूर्णमासयागाङ्गत्वेन विधानार्थम् । तेनाऽऽश्रावणादिसंपाद्यौ दर्शपूर्णमासौ यागौ तथा तदङ्गं प्रयाजादयोऽपि यमतिचोदनाविहिता दर्शपूर्णमासप्रकरणगता आश्राव- णादिकाङ्गका एव यागास्तथा 'प्रजापतिर्देवासुरानसृजत ' इति यज्ञशब्दवाच्ये सोमेऽपि च्छन्दता वीर्यरूपत्वेनाऽऽश्रावणादीन्यङ्गान्याह । तथा च ज्योतिष्टोमोऽपि पागोऽन्ये च दर्शपूर्णमासविकृतिरूपा इष्टिपशुबन्धास्तथा ज्योतिष्टोमगुणविकारास्तद्वि- कृतिरूपा एकाहाहीनसत्राणि च यागा नान्ये यजतिधात्वर्थातुशासने शिष्टा देवपूना. संगतिकरणरूपा अर्था यज्ञयागशब्दवाच्याः । यज्ञशब्दो वषट्कार प्रदान एवं कर्मणि रूढोऽन्यत्र प्रयुक्तो लक्षणया योगेन वा । अत एवं कात्यायनः वषट्कारप्रदाना यनतयः स्वाहाकारप्रदाना जुहोतयः' इति । नैमिनिरपि 'शब्दान्तरे कर्ममेदः कृता- नुबन्धित्वात् ' इत्याह । वार्तिक कृदपि धास्वर्थभेदे सर्वत्र विज्ञेयं भावनान्तरम् ' इति । तस्मायनशब्दोऽत्रापि यज्ञरूपयशभावनावाचकोऽपि पिण्डपितृयज्ञाग्निहोत्रादिना- नाकर्माणि मुम्ना प्रतिपादयति धर्मप्रश्नपितृमेधप्रश्नोक्तान्तान्यभ्युदयनिःश्रेयसफलानि । पितृमेधोऽपि पुरुषसंस्कार इति वक्ष्यति फळं चाऽऽनन्त्यं सुखं स्वर्ग इति । तथाऽऽत्माऽपि धर्मेषु व्याचिख्यासितो व्याख्येयत्वेन प्रतिज्ञातः । कथं यंशा भावना हि यज्ञशब्दा. भिधेया व्याख्येयत्वेन प्रतिज्ञाता स विधीयत इत्युच्यतेऽनन्तरमेव विधिस्तु भावनावि. षयो मावयेदिति भावनां गोचरयेत्किमित्याकाङ्क्षावती च कुर्यात् । तत्र लिङाऽभिहित. मिष्टसाधनत्वमाक्षिप्तं वा भावनागतं प्रतीयेत, इष्टसाधनं च स्वभाव्यत्वेनेष्टं प्रथमतो निरवधिक सुखमेव गृह्णाति । ततो यदि स्वर्गादिपदेन सुखमवच्छिद्यते तदा तथैव गृह्यते काम्येषु । अन्यदा निरतिशयमेव सुख साध्यं फलत्वेन गृह्यते नियतेषु तदवच्छेदका- प्रतिरात्मैव परमप्रेमास्पदत्वेन साक्षात्कारेण प्राप्यतया फलत्वेन गृह्यते । वक्ष्यत्या- चार्यों धर्मेषु ज्ञानद्वारा कर्मफलमात्मलामात्परं नास्तीति । लब्धस्य लामोऽज्ञाननिव- तकतत्साक्षात्कारेण । तदप्याधानप्रश्ने वदिष्यति । कममिनिःश्रेयसम् ' इति । सा. क्षात्कार साक्षात्कृतं चाऽऽत्मस्वरूपं निःश्रेयसशब्दार्थः । तस्मादात्माऽपि फलत्वेन प्रतिक्षात एव । केन भावयेदिति फलसंबन्धोत्तरकालमपेक्षायां फलकरणत्वेन यागादि- १ क, ग, च, छ, 'हीती द्वौ।