पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः) महादेवकृतवैजयन्तीष्याख्यासमेतम् । त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान्व्यासः कृपणवत्सलः ॥ इति । व्यासो हरिरेव स्वशिष्यादिषु शक्ति निवेशयंस्तद्वारा सर्व कृतवानित्यर्थः । तेन संप्रयोजनत्वे स्थिते भगवान्सत्यापाठः प्रणेष्यमाणस्य मूत्रस्या पिण्डीकृत्य शिष्यबुद्धिसमाधानाय प्रतिमानीते-

यज्ञं व्याख्यास्यमः।

यज्ञो हि मन्त्रैर्देवतामुद्दिश्य द्रव्यस्य दानम् । तस्य रूपं देवताद्रव्याम्यामेव निरूप- णीयम् । तदाहः-'द्रव्यदेवते कर्मणो रूपम्' इति मीमांसकाः । अतोऽस्य व्याख्यान नामास्यै देवताया इद द्रव्यमेतर्मन्त्रैरेवंप्रकारेण दद्यादेतस्मै फलायेति ख्यापनम् । तथा चेयं प्रकृतिरिय विकृतिरिति च यज्ञव्याख्यानम् । ततोऽतिरिक्त तदुपलक्षित दविहोमादिकमुपनयनादिकं सामयाचारिकं चानेन प्रकारेण कार्यमेतस्मै फलायेति ख्यापन तस्यापि प्रतिज्ञेयं यज्ञशब्दस्य प्रातिशाख्यकर्मोपलक्षकत्वात् । कर्माणि व्याख्यास्याम इति वक्तव्येऽपि यज्ञभूयस्त्वस्य ख्यापनाय यज्ञग्रहणम् । इदं हि सप्तविंशतिप्रभास्मकं सत्यापादहिरण्यकशिसूत्रम् । तत्राऽऽयप्रश्नद्वये परिभाषापूर्वकं दर्शपूर्णमासाव- मुनिर्वाप्येन्द्रमृधकाम्यदर्शपूर्णमासप्रयोगविकारपिण्डपितृयज्ञब्रह्मत्वानि व्याख्यातानि । तृतीयप्रने चाधिकारः सर्वकर्मसु प्रतिनिधिनिरूपणमाधान तदङ्गेष्टयः पुनराधेयम- निहोत्रं सगृहस्य प्रयाणं दर्विहोमधर्मा अतिदेशप्रकारो विकृतिषु विशेषविधिश्व सोमाग्रयणेष्टिपशुबन्धानामनुष्ठानेऽमावास्यापौर्णमासीकालावामयणेष्टिश्च । चतुर्षे प्रभे निरूढपशुबन्धस्तद्वितिविशेषविधिश्च । पञ्चमे प्रभे चातुर्मास्यानि । षष्ठे प्रभे यानमानसामान्यविधिपूर्वक दर्शपूर्णमासयोर्याजमानं प्रवसतो याममान चाऽऽध्वर्यव- विशेषइष्टिपशुबन्धेषु याजमानातिदेशश्चन्द्रवैमृधसरस्वती पूषादितियावापृथिव्यर्यमविश्व- देवेन्द्रेन्द्रियावदिन्द्रत्रातृति)णां प्रत्यक्षानुमश्रणाचाऽऽधानयानमानमाधानप्रभृत्याहिता- मिधर्माः पुनराधेये दक्षिणाविशेषोऽग्रिहोत्रयाजमान होमोपस्थान प्रवासोपस्थान पुनः प्रवासादागतस्योपस्थानविधिरामयणेष्टिनिरूढपशुचातुर्मास्येषु यानमानं च चातु. मस्येिष्वान्तरालिकानि ब्रतानि १ । ततः सतमाष्टमनवमेषु ज्योतिष्टोमस्तद्विकार उक्थ्यषोडश्यतिरावासो माश्च पश्चै (श्वे) कादशिनी तत्पशुषु तन्त्रावृत्त्याउनुष्ठेया धर्मविशेषाश्च । दशमेऽग्निष्टोमयाजमानहोतृविनियोगश्च ज्योतिष्टोमब्रह्मत्वं च । एकादशद्वादशाभ्यामग्निचयनम् । त्रयोदशे वाजपेयराजसूयौ चरकप्तौत्रामणी घ चतुर्दशेऽश्वमेधपुरुषमेधौ सर्वमेधश्च । पञ्चदशे विध्यपराधे प्रायश्चित्तानि । षोडशे द्वाद. शाहोऽहीनसत्ररूपो महावतं. गवामयनं च । सप्तदश एकाहाहीनाः । अष्टादशे सत्राणि सहस्रसंवत्सरान्तानि । एकोनविंशपिंशयोरुपनयनादीनि स्मार्तकर्माणि । एक- १ ख. "तिशे । २ ख. 'नं महोप।