पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ सत्याषादविरचितं श्रौतसूत्रं- [१प्रथमप्रग्ने-

अदित्यास्त्वोपस्थे सादयामीत्यपरेणाऽऽहवनीयमपरेण वा गार्हपत्यमुपसादयति ।

हविःशूपमन्यतरस्याग्नेः समीपे स्थापयति । व्यवस्थामाह-

यतरस्मिन्नग्नौ श्रपयति ।

तस्य समीप एव सादयतीत्यर्थः । अनेन पूर्वमुक्तो गार्हपत्याहवनीययोर्विकल्प ऐच्छिक इत्युक्तम् । यत्र श्रपर्ण तत्समीप उपसदिनमित्यत्रैव व्यवस्थितविकल्पवि- धानात् ।

अग्ने हव्यꣳ रक्षस्वेति यथादेवतं परिददाति ।

तस्यास्तस्या देवताया कशे परिरक्षणार्थ तेन तेन मन्त्रेण ददाति । अग्ने हव्यर रक्ष- स्वेत्याग्नेयमग्नीषोमौ हत्य५ रखेथां, दर्शे तु इन्द्राग्नी हव्यः रक्षेथामिति शाखान्तरीयौ मन्त्री लक्षणेन प्रदर्शितौ।

सशूकायाꣳ स्रुचि प्रोक्षणीः सꣳस्कृत्य यथा पुरस्तात् ।

सशूकत्वं न विधीयते किं तु शूकप्रक्षालनं निवार्यते । शूका ब्रोह्यादिद्रव्यस्याग्नि. होत्रहवण्या लग्नाः सूक्ष्मशिखावयवाः । एतेन त्रीहयोऽपि ज्ञेया ये सशूकास्त एव बीह- योऽन्याः शालयो ब्रीहिसदृशाः । अत एव सशूकत्वसाम्येन ब्रीह्यमावे नीवारा एव प्रतिनिधीयन्ते न शालयोऽशूकत्वात् । यवास्तु सशूका एव सशूकानामेव ब्रीहित्वं न्याय- विद्भिरप्युक्तमेव | प्रोक्ष्यते यामिस्ताः प्रोक्षण्यः सत्यस्ताः संस्कृत्येतिनिर्देशात्संस्कारा- त्पूर्वमपि प्रोक्षणीत्वमस्तीति न संस्कारवचनः । तेन प्रोक्षणीरासादयेत्यादौ तथाऽऽज्य प्रोक्षणमित्यादावपि विना संस्कारं प्रोक्षणीत्व सिद्धम् ।

ब्रह्मन्प्रोक्षिष्यामीत्यामन्त्रयते ।

गतार्थम् ।

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यमुष्मा अमुष्मा इति यथादेवतं त्रिः प्रोक्षति ।

तन्त्रेणैव विभागाभावात् । अग्नीषोमाभ्यामिति यथापाठं मन्त्रान्तः । न चानुषङ्गोऽ- ग्रीषोमाभ्यां वो जुष्टं प्रोक्षामीति, वाक्यान्तरे ह्यनुषशास्तन्त्रेण प्रोक्षणे न वाक्यान्तर- प्रयोगः । कल्पान्तर स्पष्टमुक्तमेतत् । यथाऽग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति च तथा दर्शेऽग्नये वो जुष्टं प्रोक्षामन्दिाग्निम्यामिति मन्त्रान्तरं पूर्ववज्ञेयम् ।