पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२५

नाग्निमभिप्रोक्षेत् ।

अग्निमभि प्रोक्षणं न कार्य हविः प्रोक्षन्नग्नौ यथा बिन्दवो न पतन्ति तथा कार्यम- न्यथोपघातात्प्रायश्चित्तं स्यादित्यर्थः ।

पात्राणि प्रोक्षति यथा पुरस्तात् ।

उत्तानानि कृत्वा शुन्धध्वमित्यनेन त्रिः प्रोक्षतीति पूर्व यथोक्तं तथेत्यर्थः ।

वातस्य ध्राजिरसीति कृष्णाजिनमादत्ते देवस्य त्वेति वा ।

द्वितीयस्याऽऽदद इत्यन्तः । आसादित कृष्णाजिनम् ।

अवधूतꣳ रक्ष इत्यूर्ध्वग्रीवं बहिर्विशसनमुत्करे त्रिरवधूनोति ।

अरातय इत्यन्तः । प्रोवामागमधं कृत्वा विशसनं मांसलग्नो देशो विशसनं विशा. स्यते मांसात्पृथक्क्रयते छिद्यते यत्तत् । कृत्यल्युटो बहुलमिति प्रत्ययः । स भाग आत्मानं प्रति न कार्य इत्यर्थः । अवकृष्यावकृष्य धूनोति कम्पयति निझाटयतीत्यर्थः । उत्करो यत्र करिष्यते तत्र व्याख्यास्यतोऽ(तेs)पि क्वचित्स्मारयिष्यते च ।

अदित्यास्त्वगसीत्यपरेणोत्करं प्रतीचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ।

उत्करस्य पश्चाद्भागे यथा तथा प्रतीचीनग्रीवमुपरिलोमानिनमास्तुणाति प्रप्तार- यतीत्यर्थः।

प्रति त्वा पृथिवी वेत्त्विति पुरस्तात्प्रतीचीं भसदमुपसमस्यति ।

मसदं गुदप्रदेशे त्वचः पुरस्तादिति ब्राह्मणानुकरणमात्रं मसदमित्यनेन गतार्थत्वात् । तां भसदं प्रतीचीमधस्तादुपसमस्येत्संधानं मांसभागेन सह मांसमागस्य कुर्यात् । न च पुरस्तादुपरिष्टात्प्रतीची भसदमिति संबन्धुं योग्यम् । उपसमस्यतीत्यनुपपन्नं स्यात्सं. धानं मांसदेश एवान्यथा द्विगुणी कुर्यादित्येव ब्रूयात् । ब्राह्मणे प्रति त्वा पृथिवी त्वित्याह प्रतिष्ठित्या इति प्रतिष्ठितत्वमनेन कर्तव्यमुपरि समसने कथं सा तिष्ठेदप्रतिष्ठा स्यादतः पूर्वव्याख्यैव ।

अधिषवणमसीत्यनुत्सृजन्कृष्णाजिनमुलूखलमधिवर्तयति ।

कृष्णाजिनमन्वारब्धमेव कृष्णाजिनमधि उपरि उलूखलं वर्तमानं यथा भवति तथा करोति वर्तयति । त्वग्वेत्त्विति मन्त्रान्तः ।

अग्नेस्तनूरसीत्यनुत्सृजन्नुलूखले हविरावपति त्रियर्जुषा तूष्णीं चतुर्थम् ।

गृह्णामीत्यन्तः। उलूखलमननुत्सृजन्नित्यर्थात् । हविरावपति बिले निक्षिपति । १ छ. ट. मूर्ध्व कृ । २ छ. ट. देशा त्व। .