पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः]. महादेवकृतवैजयन्तीव्याख्यासमेतम् । १२१

शूर्पे पवित्रे निधाय ।

तूष्णीमेव । यच्छन्तां पञ्च गोपीयाय वो नारातय इति मुष्टिं पूरयित्वा । पुरोडाश्यानेकेन मुष्टिना पूर्ण गृहीत्वा ।

स्रुच्योप्य ।

पामहस्तेन गृहीतायामथवा शूर्प हवनी निधायेति वैखानसोक्तेस्तस्यामग्निहोत्रह- वण्यां मुष्टिमोप्य रेचयित्वा गृहीतं मुष्टिं तूष्णीमेव मन्त्रस्य संनिधिना लिकन च पूरणं प्रत्येव विधेः।

देवस्य त्वेति पवित्रान्तर्हिते चतुरो मुष्टीन्निर्वपति त्रिर्यजुषा तूष्णीं चतुर्थम् ।

पवित्रान्तहिते शूर्प यत्र पवित्रे तत्रैवाग्नये जुष्टं निर्वपामीत्यन्तेन निर्वपति मुष्टिमात्र. मेव तस्यैव च्यावापान चतुर्णामावाप उक्तोऽस्ति । निर्वापस्तु चैवान्यथा तस्या- मावापोऽदृष्टार्थः स्यादग्निहोत्रहवण्या चतुरो मुष्टीनिर्वपतत्यिापस्तम्बोक्तेश्च । चतुर्णा- मेकवारं निर्वापः संमवति स्रुचि ग्रहीतुमसामर्थ्यात् । यद्यपि चतुर इति द्रव्यगता संख्या तथाऽपि त्रियजुषा तूष्णीं चतुर्थमिति क्रियाभ्यासस्यैव विधानात् । न च चतु. मुष्टिपरिमितस्यैको निर्वापस्तादृशानां त्रिर्यजुषा तूष्णीं चतुर्थमित्यभ्यास इति वाच्यम् । चतुरश्चतुर इति वीप्साया अश्रवणात्सर्वम्यैव निर्वापस्य चतुर्मुष्टिमात्रपरिमितत्वं चतुर इत्येतेनावगम्यते । मुष्टीनिति मुष्टित्वेनोद्देश्यत्वात्प्रतिमुष्टि द्रव्यपृथक्त्वादभ्यावृत्त्या निर्व- पतीति गम्यते । तथा च चतुर्मुष्ट्यात्मक एकः पदार्थस्तथाऽपि जुवेण गृहीतमाज्यं मन्त्रेण संस्कृतं पुनर्गृह्यमाणमसंस्कृतमेवेति । यथा द्रव्यैकत्वेऽप्यवयवस्य नुवमात्रत्वेन परिच्छिन्नत्वान्मन्प्रावृत्तिरेवमत्र पदार्थैकत्वेऽपि मुष्टिमानेनावान्तरद्रव्यभेदाव्यपृथक्त्वेऽ. भ्यावर्तत इति न्यायात्प्रत्येकं चतुषु मुष्टिषु निर्वापमन्त्रावृत्तिनिर्वापाङ्गं च मुष्टिपूरणमा. वापश्च दृष्टार्थ तदपि संयुक्तान्येकापवर्गाणीत्येकस्य मुष्टेः पूरणमावापो निर्वापश्च तथैवा. न्येषामपि तथैव मन्त्रोऽपि प्रतिमुष्ट्यावतते । तथा चायमर्थो भवति देवस्य त्वेति स्त्रुचोप्तां. श्चतुरो मुष्टीन्प्रत्येकं मन्त्रेण निर्वपति । आवापस्तु सामर्थ्यसिद्ध एकैकस्यैव मुष्टेमन्त्रा- वृत्त्या द्रव्यपृथक्त्वादेव पूरणमपि तथैव । एवं विशिष्टविधिनोत्सर्गतश्चतुर्वपि यच्छन्ता- मित्यादिमन्त्रेषु प्राप्तेप्वपवादवाक्यं ब्राह्मणं दर्शयति त्रिरित्यादि । त्रिर्यजुषेति प्राप्तस्यानु- पादस्तूष्णीमितिविधानार्थः । यच्छन्तामिति देवस्य त्वेति च यजुर्द्वयं यजुःशब्देनानूद्य. तेऽनुवादगतमेकत्वं न विवक्ष्यते । अथवाऽस्मच्छाखायामश्रुतं प्रथमं यजुर्नानुवदेदस्म- ब्राह्मणं तथाऽपि साङ्गस्यैव निर्वापत्वात्सर्वोऽपि चतुर्थमुष्टिनिपिस्तूष्णीमेव विधीयते । तथा च यच्छन्तामित्यस्यापि निवृत्तिश्चतुर्थे । अत्र मुष्टिं पूरयित्वेति मुष्टिना पूर्ण - 2