१२० सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्र-
धूरसीति तस्य दक्षिणां धुरमालभ्य ।
अपूर्वत्वाद्विधिः । पूर्यत्र बध्यते बलीपर्दस्तयुगस्थानम् । मालम्भः स्पर्शः । पूर्वाम इति मन्त्रान्तः।
त्वं देवानामिति सव्यमीषामालभ्य जपति ।
नाथमालम्मे मन्त्र आलम्मानन्तरं जपे । देवहूतममिति मन्त्रान्तः । जपत्वाचातु:- स्वर्यम् ।
विष्णुस्त्वाऽक्रꣳस्तेति सव्ये चक्रे दक्षिणं पादमादधाति ।
स्थापयति शकटमारोदु दृष्टार्यत्वात्तेन स्पर्शनमात्रं पादेन कृत्वा पादं नापसारयेत् ।
अह्रुतामित्यारोहति।
अह्रुतम् असि हविर्धानं दृꣳहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् । विष्णुस् त्वा क्रमताम् । उरु वाताय । अपहतꣳ रक्षः । यच्छन्तां पञ्च ॥[१]रोहति ।
शकटमुत्तरपादेनाऽऽरोहति । मा हरति मन्प्रान्तः ।
मित्रस्य त्वेति परिणहं प्रेक्षते ।
मा स्वा हि सिषमित्यन्तः ।
उरु वातायेति परिणहो द्वारमपच्छादयति ।
पत्र हविनिहितं परिणहि पाने तदारसुद्धाटपति । तावानेव मन्त्रः ।
मित्रस्य त्वेति पुरोडाश्यान्परिणहं च प्रेक्षते ।
पुरोडाश्यान्पुरोडाशाहीन् । प्रत्येकं मन्त्रो द्रव्यपृथक्त्वात् । हविर्मात्रविषक्षयकव- चनं मन्त्रगतम् । मन्त्रान्तः पूर्ववत् ।
ऊर्जं धत्स्वेति पुरोडाश्यानभिमृशति ।
पुरोडाशसाधनमात्रविवक्षया मन्त्र एकवचनमेवं सर्वत्र गतार्थम् ।
पयो मयि धेहीत्यात्मानं प्रत्यभिमृशति ।
मात्मानं हृदयदेशस्थं प्रत्यक्तयाऽनुसंधायाहमस्मीति हृदयदेशेऽभिमृशति । स्मात उदकस्पर्शः।
अपहतꣳ रक्ष इति ततस्तृणं लोष्टं वा निरस्याप उपस्पृश्य ।
निरसने मन्त्रः । श्रौतमुपस्पर्शनम् । तयोरमावे तु कात्यायना-अविद्यमानेऽभि. मृशेत् । अनेन मन्त्रेण । ' या नाम्येव मृशेत् ' इति श्रुतेः ।
दशहोतारं व्याख्याय ।
वाक्यशः पठित्वा यातुःस्वर्येण जपरूपत्वात् । चित्तमाज्यमित्यादि सामाध्वर्युरि। स्यन्तो दशहोता दशहोतनामको मन्त्री होतृविनियोगे प्रवृत्तिनिमित्तं ज्ञेयम् । 15. खग, च, दमबद।
- ↑ वाजसनेयि संहिता १.९