पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

प्रत्युष्टमित्याहवनीये गार्हपत्ये वा निष्टपति ।

अरातय इति मन्त्रान्तः । गतार्थम् ।

यजमान हविर्निर्वप्स्यामीत्यामन्त्रयते ।

अनुज्ञार्थ यजमानं पृच्छति ।

प्रवसति।

यजमाने ।

अग्ने हविर्निर्वप्स्यामीत्यनुब्रूयात् ।

अदृष्टार्थमेतत् । प्रतिवचनदातुरभावाव्यादित्युक्तम् । आत्मसंस्कारत्वेन दृष्टार्थता वक्तुं शक्या । याजमानमों निर्वति । नात्र वानियमलोपो विधिसामर्थ्यात् । प्रणव उक्ते करोतीति पूर्वमेव परिभाषितं, हविज़हयो यवा वा, व्रीहिमियनेत यवैर्य नेतेति श्रुतेः । वाशब्दाभावेऽपि न समुच्चयः परस्परनैरपेयेऽसाधनत्वावगमात्समुच्चयस्य । द्रव्यान्तरत्वान्न ब्रीहिमिर्नापि यवैरिष्टं भवतीति विधिद्वयबाधभियाऽष्टदोषदुष्टोऽपि विकल्स एव युक्तः । विकृतावपि विजातीयेऽपि हविषि नोहः सर्वेषां हविष्ट्वात् ।

उर्वन्तरिक्षमन्वेमीति गच्छति ।

यत्र हविः शकटे तिष्ठति तदभिमुखो गच्छति ।

अपरेणाऽऽहवनीयमपरेण वा गार्हपत्यं नद्धयुगꣳ सपरिणत्कꣳ शकटमवस्थितं व्रीहिमद्यवमद्वा प्रागीषमुदगीषं वा ।

भवतीति शेषः । आहवनीये गार्हपत्ये वा हवींषि श्रप्यन्त इति वक्ष्यति तदनुसा- रेण व्यवस्थितो विकल्पो गार्हपत्ये वेति । कुतः, अपरेण वाऽऽहवनीयमित्यपरशब्दे विद्यमानेऽप्यपरेण वेति पुनर्ग्रहणात् । नद्धं युगं यस्येति तथा, ईषाभ्यां बन्धनप्रकारेण बद्धं युगं यस्य, सपरिणत्कं परिणद्धान्यावस्थित्यर्थं शकटोपरि समन्ततो बद्धं कटादि तेन युक्तं सपरिणत्कं शकटमनः, जातिवाची शब्दो न संस्कारवाची तेन सिद्धमेव लौकिकं ग्राह्यम् । अवस्थितमपरेणेत्यन्वयः । ब्रीहिमद्यवमद्वेति विकल्पो ब्रोहिमिरिष्ट्वा ब्रोहिभिरेव यजेताऽऽग्रयणाधवैरिष्ट्वा यवैरेव यजेतेति शास्त्रव्यवस्थया । अनारब्धा- ग्रयणस्य विच्छाविकल्पः । ब्रोहयो यस्मिन्सन्ति शकटे तत्तथा व्रीहिमदिति मानुपधा- याश्चेति न मकारस्य वकारोऽयवादिभ्य इति यवादिगणपरिसंख्यानात् । प्राची ईषे यस्य तत्तथा । तथोदगीषमित्यपि । ईषे शकटयुगयोः संधानकाष्ठे विशेषकृते । १ क. ख. ग. च. मीति । २ क, ग, च. छ. ट. ठ. . चनं दा। ३ क. ग. च. छ. द. ठ, ड,क्ष्येण सा'।