पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४च०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । विसर्गकालविधानार्थ च । पशुं प्रातःहविकारं वक्ष्यति । प्रातोहे च सायंदोह- कृतपवित्रं गृह्यते । पशौ तदसंभवात्व कार्यमिति जिज्ञासिते पवित्रकार्ये चोदकप्राप्त उपस्थितं तदैव कार्यमिति दर्शितम् । ब्रह्मणि स्वस्थानमवस्थिते पवित्रं कृत्वा ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यतीति वक्तव्येऽपि यथा चोदकप्राप्तं कर्मणे वामित्यादिनोक्तमेवं ब्रह्मन्नित्यादिनोक्तं प्राप्तत्वादेव यथाकालम् । अतोऽप्राप्तं पवित्र- करणमेवोक्तम् । वाचं यच्छत्या हविष्कृत इति याजमाने हविष्कृता वाचं विसृजत इति चाध्वर्यवे वाग्विसर्गकालस्य पशावसंभवाद्वानियमविधानमपि निवर्तते । कुतः, नियमस्य समाप्त्यसंभवाद्यावत्कर्मसमाप्ति वानियमः प्राप्नुयात्तच्च नेष्टम् । तस्माद्या- वद्धविष्कृदाह्वानात्पशौ पूर्वतनवानियमव्याप्तकर्मसंभवस्तावदेव . नियमोऽथ त्याग इति न्याय्यं न तु प्रकृत्युक्तवितर्गकालाभावानियमाङ्गीकाराभाव इति युक्तमिति वक्तुं यजमान वाचमित्यादिना नियमस्तद्विसर्गश्च प्रदर्शितो यजमानस्य । तस्याध्व. योरपि प्रणयन्वाचं यच्छति हविष्कृता विसृजत इति विसर्गासंभवेऽपि यजमानवदेव विसर्गकालसंभव इति साक्षादेव दर्शितमाध्वर्यवं यथा याजमानम् । कथं, पवित्रे कृत्वा संप्रेष्यति संमृशति प्रोक्षिते विसृजत इत्यध्वर्योरेव कर्म प्रदर्शितम् । यजमान वाचं यच्छेति संप्रेषकालाधनमानस्य प्रदर्शितमर्थात् । यदि प्रणयन्वाचं यच्छतीति चोदकप्राप्तं नाङ्गीकृतं स्यात्तदा कः प्रसङ्गो विसर्गकालविधानस्य । न च वाग्यतः पात्राणीत्यनुवादबलात्प्राप्तस्य विसर्गकालविधानमिति वाच्यम् । वाग्यत इति विधेर• मावादतिदेशाभावाच कथं प्राप्तिः स्यात् । तस्मात्प्रणयन्वाचं यच्छतीति चोदकप्रा. प्तस्य वानियमस्य व्याप्यं पदार्थ पूवोक्तन्यायेन दर्शयन्विसर्गकालमेव दर्शित. वानिति प्रणयनानुज्ञालिङ्गमेवेदं न प्रणयनपरिसंख्यार्थ पवित्रे कृत्वेत्यादि वचनमिति सिद्धम् । न च सति पशौ प्रणीताप्रणयने पशुपुरोडाशे प्रणीतापात्रासादनमयुक्त- मिति वाच्यम् । पशौ प्रणयनस्यादृष्टार्थत्वमात्रप्रयुक्तस्य न प्रसङ्गेन पुरोडाशे दृष्टद्वाराऽप्युपकारकता भवेत् । तस्मात्पुरोडाशार्थमन्यदृष्टप्रयोजनमेव प्रणयनं कार्यम् । अदृष्टद्वारा प्रसङ्गेनोपकारे सत्यपि दृष्टप्रयोजनस्य प्रसङ्गेन सिद्ध्यभावात् । न च प्रसङ्गेनादृष्टद्वारोपकारिणीनामपामेकदेशेन दृष्टद्वारोपकारकत्वमपां प्रसङ्गेनैव स्यादिति वाच्यम् । प्रणयनमदृष्टद्वारा प्रसङ्गेनोपकरोति तत्साधनत्वेनैव विनियुक्तानामपां कर्मा- न्तराणां साधनत्वं न प्रसङ्गसिद्धमिति युक्तम् । यथा पश्वर्थसमवत्तधान्याः प्रयोगेऽपि तस्यास्तदर्थत्वेनाविनियुक्ताथा न पुरोडाशेडार्थत्वं प्रसङ्गेन सिध्यति । तत्तथोपकारान्तरेण प्रसङ्गादुपकारकं च रूपान्तरेण प्रसङ्गादेवोपकारकमिति प्रणयनान्तरमेव विहितम् । यदपि कात्यायनापस्तम्बादिमिनिरूढपशौ प्रणीताविधानं तत्तेषां शास्त्रान्तरेणाग्नी. घोमीये प्रणयनं प्रतिषेधति । तन्मतेन तद्विकृतौ निरूढेऽपि प्रतिषेधे प्राप्ते पुनःप्रणयन- प्रतिप्रसवार्थ प्रणयनविधानमिति । ४