पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने-

कꣳसेन ब्रह्मवर्चसकामस्य प्रणयेन्मृन्मयेनान्नाद्यकामस्य ।

ब्रह्मवर्चसं वेदवेदाङ्गार्थज्ञानानुष्ठानाभ्यां यो यजमानो वर्चः शोमामात्मनः काम- यते तस्याध्वर्युः कस्ये(से)न पात्रेणापः प्रणयेन्मृन्मयेन पात्रेणान्नाद्यमन्नमत्तीत्यन्नादः प्रकृष्टान्नस्यान्नादस्य भावोऽन्नाद्यं तत्कामस्य यजमानस्येति पूर्ववत् । चमसेनापः प्रण- येदिति शाखान्तरीयं दर्शपूर्णमासप्रकरणे पठितम् । तद्वाक्यमङ्गत्वमावेदयति प्रणयनं प्रति चमसस्य । अप इति द्वितीयया संस्कार्यत्वमवगम्यते प्रणयनेनापः संस्कुर्यादिति । संस्कृतानां च विनियोगः प्रणीताभिहवींषि संयोतीति । न्यायदर्शन उदाहृत्य दृष्टार्थत्व- मेव स्थापितम् । प्रणीतानामादाय पिष्टेष्वानयतीति सूत्रकारेणाप्युक्तम् । यदा न संय- वनप्रयुक्ताः स्युस्तदा न प्रतिनिधिं विदध्यात् । यदि प्रणीता न विद्यरन्याः श्चि- दापो यजुषोत्पूय ताभिः सेयोतीति । ततो ज्ञायते दृष्टार्थत्वमविप्रतिपन्ने सूत्रकृतामिति । तथा यत्राऽऽज्यपयती चरौ श्रपणार्थे श्रूयेते तत्र ते प्रणयतीत्येवं वक्ष्यति । तस्मास्पिष्टे- ज्वानयतीति सूत्रेऽर्थ एव निर्विष्टो वाक्यं तु प्रणीताभिर्हवींषि संयोतीति न्यायशास्त्रे दर्शितमेव । अन्यथा कः प्रसङ्गश्चरौ प्रणीतानाम् । तस्माद्धविःसंयवनार्थाः प्रणीताः । अष्टार्थता चावगम्यते, यत उपनयनादिषु प्रणीताप्रणयनं विधत्ते । आह च भर- द्वाजः सर्वसंस्थासु प्रणीता इति । एवं च प्रणयनस्यादृष्टार्थत्वे दर्शपूर्णमासप्रकरण- पठितानां सर्वेषां यागानां प्रकरणेहीतस्य प्रणयनस्य सर्वाङ्गता सिध्यति । दृष्टा. र्थत्वमात्रे तु. पुरोडाशमात्राङ्गता स्यादुपांशुयोगसांनाच्ययागाङ्गता प्रकरणगता बाध्येत । तस्मात्तौ समानविधानाविति सूत्रकारवचनाचादृष्टार्थ, तथा सर्वयागाङ्गता युक्ता । तथा प्रणीताबाह्मणेषु च प्रणयनस्तुतिः समस्तदर्शपूर्णमासयागफलार्थत्वेन दृष्टा चादृष्टार्थत्व एव युक्ता भवति । एवं वा दृष्टार्थप्रणनयने विनियुक्तानामप्यपा संयोगे(ग)पृथक्त्वन्यायेन हविःसंयवनार्थत्वेनैकदेशस्य दृष्टार्थत्वेनाविनियुक्तस्यापि शास्त्रान्तरबलाह(दृ)ष्टार्थत्वेऽपि न कश्चिद्दोषः । न चापः प्रणयतीति द्वितीयानि- देशादपा प्रणयनसंस्कार इति वाच्यम् । प्रणयनव्यतिरेकेणान्यस्य कर्मणः सर्वयागा- र्थत्वेनादृष्टार्थस्यासंभवात् । न च हविःसंयवनोपयोक्ष्यमाणस्य संस्कार इति वाच्यम् । प्रकरणैः सर्वयागार्थत्वमवगां बाध्येतेत्युक्तमेव । तस्मात्सक्तूज होतीतित्र- द्वितीया व्याख्येया । ततः प्रणयनमुपांशुयानसांनाय्ययागाङ्गमपीति तद्विकृतिषु केव. लाज्ययागपश्चामिक्षादिष्वपीति । प्रणयनं कार्यमेवादृष्टार्थमिति सिध्यति । ननु यदि पशौ प्रणयनं स्यात्तदा पवित्रे कृत्वा यजमान वाचं यच्छेति संप्रेष्यति, वाग्यतः पात्राणि संमृशति, प्रोक्षितेषु वाचं विसनत इसि क्रमनियमो बाध्येतेति चेत् । न । नेदं क्रमनियमार्थ पशौ सूत्रं वक्ष्यति, किं तु पशावप्राप्तपवित्रविधानार्य तथैवाप्राप्तवा- १ क.ग. इ. कांस्थेन । २ ट. ड, प्याजस। क. ख. ग. छ. द. "णवता।